पृष्ठम्:अद्भुतसागरः.djvu/६६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५८
अद्भुतसागरे

विष्णुधर्मेत्तरे ।

 नृणां रोमाञ्चजननी वाहनानां भयप्रदा ।
 ज्वालानना सूर्यमुखी विज्ञेया भयवर्धनी ॥

वराहसंहितायाम् ।

 या रोमाञ्चं मनुष्याणां शकृन्मूत्रं च वाजिनाम् ।
 रावात् त्रासं न जनयेत् सा शिवा न शिवप्रदा ॥

वसन्तगजस्तु ।

  रोप्तोद्गमं जनयत्यकस्मात् फे-इत्यतिक्रूररवा नराणाम् ।
 xx पुरीषं च तुरङ्गमाणां सा सर्वदा स्यादशिवा शिवेह ॥
 ज्वालां विमुञ्चत्यतिरौद्रनादा समाकुला यातुरिवासमन्तात् ।
 रोमाञ्चकं वै जयकस्माद कुर्वाच्छिवा सा पुरराजघातम्

घनपर्वण्यजगरग्रस्तं भीमे युधिष्ठिरादीनामुत्पातदर्शनम् ।

 "दारुणं ह्यशिवं नादं शिवा दक्षिणः स्थिता ।
 दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह[१]

भागवते हिरण्याक्षो पत्ती !

 "अन्तर्ग्रामेषु मुखयो वमन्त्यो वह्निमुल्वणम् ।
 शृगाला अपि टङ्कारैः प्रणेदुरशिवाः शिवाः"[२]

तत्रैव वृष्णीनामन्योन्ययुद्धनिमित्तम् ।

 "शिवैपेत्युत्तरामाश्रित्याभिरौत्यनलानना"[३]

वराहसंहितायाम् ।

 अक्षोभः श्रवणं चेष्टं धनप्राप्तिः प्रियागमः ।
 क्षोभः प्रधानभेदश्च वाहनानां च सम्पदः ॥
 फलमासप्तमादेतदग्राह्यं परतो रुलम् ।
 याम्यायां तद्विर्यस्तं फलं षट्पञ्चमादृते ॥


  1. १७९. अ. ४१ श्लो ।
  2. श्रीमद्भागवते ३ स्कन्धे, १८ अ, ९ श्लो ।
  3. नोक्तस्थले उपलभ्यते ।