पृष्ठम्:अद्भुतसागरः.djvu/६६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५७
शृगालाद्भुतावर्त्तः ।

वरासंहितायाम् ।

 मौनं गता प्रतिरुते नरद्विरदवाजिभिः ।
 या शिवा सा शिवं सैन्ये पुरे वा संप्रच्छति ॥
उच्चैर्घोरं वर्णमुच्चार्य पूर्व पश्चात् क्रोशेत् क्रोष्टुकस्यानुरूपम् ।
या सा क्षेमं प्राह वित्तस्य चाप्तिं संयोगं वा प्रोषितेन प्रियेण ॥
 पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा ।
 ...........सज्वाला देशनाशिनी ॥

काश्यपस्तु ।

 नैव दारुणता तस्याः सज्वालायाः स्वभावतः
 ज्वालया साग्निकं वक्त्रं वमन्ती साऽशुभा शिवा

लङ्काकाण्डे वज्रदंष्ट्रवधनिमित्तम् ।

 "वसन्ति स्म शिखिज्वालाः शिवा घोराश्च पश्यतः”[१]

तत्रैव कुम्भकर्णवधनिमित्तम् ।

 "घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः"[२]

आरण्यकाण्डे रावणवधनिमित्तम् ।

 “रुरुदुः सङ्घशो घोरा यावकोद्गारिभिर्मुखैः”[३]

उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।

 “सज्वालकवलाः शिवाः”[४]

मण्डलानि प्रचक्रमुः-इति सम्बन्धः ।</ब्र्> अग्निपुराणे शक्रपराजयनिमित्तम् ।

 वमन्त्यः पावकं घोरं शिवाश्चैव ववाशिरे ।


  1. वाल्मीकीये ५३ अ, १४ श्लो. ।तत्र 'वमन्त्यः पावकज्वालाः शिवा घोरा वधाशिरे'-इति पा. ।
  2. वाल्मीकीये ६५ अ. ४९ श्लो.।
  3. नोक्तस्थलेऽस्योपलब्धिः ।
  4. वाल्मीकीये ९ अ. ३० श्लो. ।