पृष्ठम्:अद्भुतसागरः.djvu/६६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५४
अद्भुतसागरे ।

मत्स्यपुराणे ।

 काष्ठोन्मुखास्थिशृङ्गास्याः श्वानो मरकवेदकाः ।

भागवते वृष्टिवंशक्षयनिमित्तम् ।

 "ममाग्रे सारमेयोऽयं महीमाहत्य भीतवत् ।
 शब्दं कुर्वन्निमं सव्यं दक्षिणं च गवेषति"[१]

पराशरः ।
 सूर्योदये प्राङ्मुखं नर्दत्यग्निभयम् । अपरसन्ध्यायां गवेडकप्रवेशे वा रथ्यासु धावन्तः सारमेयाः सन्ध्ययोरूर्ध्वमुखा बहवः समं नदेयुर्भयाय ।
वराहसंहितायाम् ।

सूर्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः ।
एको यदा वा बहवः समेता शंसन्ति देशाधिपमन्यमाशु ॥

वसन्तराजः ।

दिनकराभिमुखोऽस्तमये भयं निगदिताः खलु कर्षकभीतयः ।
पवनदिङ्निनदस्तु निशामुखे भवति चेत् स समीरणभीतिदः ॥

 अत्रानुक्तविशेषशान्तिषु शुनकोत्पातेषु सावित्रीमब्रकलक्षहोमादिका शान्तिर्मृगपक्षिविकारविहिता वा शान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शुनकाद्भुतावर्त्तः ।
अथ शृगालाद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 श्ववच्च राम विज्ञेयास्तथा वै जम्बुकादयः ।


  1. नोक्तस्थले उपलभ्यते ।