पृष्ठम्:अद्भुतसागरः.djvu/६४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४०
 

शालिहोत्रस्तु ।

 मुष्कमूलं समाश्रित्य मूत्रकोशस्य पार्श्वयोः ।
 समौ च संहितौ जातौ गोस्तनाकृतिसंस्थितौ ॥
 प्रवालाङ्कुरसंस्थानौ वटाङ्कुरनिभावपि ।
 चर्मकीलाकृतिसमौ पिटकाकृतिसंस्थितौ ॥
 एवंविधो भवेद्यस्य तमश्वं स्तनितं विदुः ।
 अमङ्गल्यं तु तं विद्याद्राष्ट्रभर्त्तृविनाशनम् ॥
 राजा त्यजेत् तु तं शीघ्रं तादृशं पापलक्षणम् ।
 गोविषाणाग्रसंस्थानं कुटशृङ्गाग्रसंस्थितम् ॥
 गोस्तनाकृतिसंस्थानं करीराग्रोपमं सथा ।
 चर्मकीलाकृति तथा पिटकाकृति चैव वा ॥
 कराङ्गुलनिभं वाऽपि स्थूलं वा यदि वा कृशम् ।
 दीर्घं ह्रस्वं खुरं श्लक्ष्णं कठिनं मृदु चैव वा ॥
 सटामध्ये तु वा बालं ललाटे मधुकेऽपि वा ।
 यस्य तं शृङ्गिणं विद्याद्राज्ञो राष्ट्रविनाशनम् ॥
 यस्मिन् देशे च वसति स च देशो विनश्यति ।
 तस्मात् तं तु रिपोर्देशे त्यक्त्वा शान्तिं प्रयोजयेत्
 अधःस्तनी च शृङ्गी च द्वावेतौ राष्ट्रनाशनौ ।
 वर्जितौ सर्वकालेषु कालचक्रे यमौ तु तौ ॥
 हयाश्च द्विखुरा ये च शृङ्गिणः स्तनिनोऽपि च ।
 त्रिकर्णा: सविषाणाश्च सपुष्पाः सद्विजास्तथा ॥
 ये चान्यूनाधिकाङ्गाश्च जायन्ते तु सदंष्ट्रिणः ।
 यच्चान्यदीदृशं किञ्चित् सर्वमुत्पातलक्षणम् ॥