पृष्ठम्:अद्भुतसागरः.djvu/६४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३४
अद्भुतसागरे ।

 अंशयोः पुत्रलाभाय बाह्वोर्मित्रविवृद्धये ।
 जानुजङ्घाकलाकूर्चैः पुष्पितैस्तु सुरप्रियः ॥
 कक्षयोः कुक्षिपार्श्वेषु पृष्ठे वा चार्थसिद्धये ।
 सेनापत्यं तु नाभ्यंशे विजानीयाविचक्षणः ॥
 मुष्कयोः पुष्पिते वाहे पुत्रोत्पत्तिं विनिर्दिशेत् ।
 सर्वाङ्गपुष्पितो वाजी श्वेतैः सर्वार्थसाधकैः ॥
 हितो धनकरो नित्यं पुत्रपौत्र विवर्द्धनः ।
 श्वेतैः श्वेतानि वाऽत्यर्थे स्निग्धानि वसनानि च ॥
 अर्थलाभाय पुष्पाणि यस्य तत्सदृशानि चेत् ।
 पुत्रपौत्रविवृद्धिश्च अर्थवृद्धिस्तथैव च ॥
 वर्धते वाऽश्वकोशेन चक्रं वाऽस्य विवर्धते ।
 ससत्त्वानां प्रशस्तानामायुधानां तथैव च ॥
 छत्रध्वजपताकानां वेदितव्याकृतीनि च ।
 नन्द्यावर्त्तसवर्णानि तथा शङ्खाकृतीनि च ॥
 पुष्पमाङ्गल्यरूपाणि वर्णाद्वर्णोत्तमानि च ।
 स्निग्धानि समरूपाणि प्राङ्मुखानि च वाजिनाम् ॥
 तान्याहुर्धनलाभाय विपरीतस्तु गर्हितः ।

पराशरस्तु ।
 अथ पुष्पं श्वेतं स्निग्धमवर्णस्य प्रशस्तम् । श्वेतस्य कृष्णं पीतं रक्तं च । यस्याश्वस्य ललाटे श्वेतकलेन्दुतारकासंस्थानं वा पुष्पं स्यात् तदनुसारिविजयं विद्यात् । आप्रोथाक्तमलं यस्य हिरण्यपुण्ड्रकं धाम स्त्रीविजयावहम् । यस्य वा स्निग्धैः सर्वाङ्गस्थैः सन्नाहानुकारं तु विभवराष्ट्रविजयावहम् ।