पृष्ठम्:अद्भुतसागरः.djvu/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
अद्भुतसागरे

तथा।

 निष्प्रभे धूम्रवर्णेऽर्के सर्वतो जायते भयम् ।

गर्गः ।

 अतिरूक्षे भयं ब्रूयात् स्थालीपिठरसन्निभे ।
 संक्षोभात् क्षीयते लोको दुर्भिक्षं वज्रसन्निभे ॥

वराहसंहितायाम् ।

 क्षुन्मारकृद्घटनिभः खण्डो नृपहा विदीधितिर्भयदः ।
 तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥

 ध्वजचापनिभे युद्धानि भास्करे वेपनेऽतिरुक्षे च ।

पराशरस्तु ।
 तोरणसंस्थानः पुरनाशाय । छत्राकारो देशविपर्याय शकटाकारे च । शरासनाकृति*[१] र्वज्राभो वा सद्य आहवाय । परुषो वेपनः शस्यनाशनः ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "द्विधाभूत इवादित्य उदये प्रत्यदृश्यत"[२]

वृद्धगर्गः ।

 आदित्यमण्डलं छिन्नं द्विधा वा यदि वा त्रिधा ।
 तद्राजमरणं ब्रूयाद्दण्डो वा यदि दृश्यते ॥

पराशरः ।
 विलग्नाकृतिर्गर्भविनाशनाय । ऊर्ध्वदण्डो जटिलः शस्त्रको पदयाधिकरः । संक्षिप्तः क्षयाय । वज्राकारो दुर्भिक्षयाय । परुषाकारो रुधिरप्रभोऽनेकनृपतिसहस्राच्छादनकरः ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः”[३]


  1. र्ध्वजाभो इति ख. ।
  2. १७ अध्याये ३ श्लो..।
  3. १७ अध्याये ३ श्लो. ।