स्वेदान्तमुपलभ्येत यत् पुष्पं स्निग्धकालकम् ।
वर्धते विषमस्तेन भूमिपालस्य सर्वतः ॥
पुष्पं यच्छ्वेतपर्यन्तं रक्तं दृश्येत सुप्रभम् ।
नचिराद्द्विषदार्त्तानां राज्ञः प्रथममादिशेत् ॥
अङ्गराजेन्द्रधनुषो यत् पुष्पं दृश्यते समम् ।
वज्राणि मणिच्छत्राणि रथसूर्यसमानि च ।
पुष्पाणि यत्र दृश्यन्ते तदा राज्ञः शुभं वदेत् ॥
पुष्पं दन्ते प्रकाशेत बालव्यजनसंनिभम् ।
तदर्थं च विजानीयाद्वर्धमानं शुभावहम् ॥
स्वस्तिकस्याथ मत्स्यस्य नन्द्यावर्त्तध्वजस्य च ।
तुल्यरूपाणि धान्यानि नित्यमेवाभिनिर्दिशेत् ॥
वाजिवारणतुल्येन पुष्पेण वृषभेण च ।
वाहनस्य तदा वृद्धिं भूमिपस्य विनिर्दिशेत्[१] ॥
प्रासादशैलसंकाशं पुष्पं दन्ते गजस्य तु ।
दृष्ट्वा तदाऽऽदिशेद्राज्ञो भूमिलाभमुपस्थितम् ॥
स्निग्धपीतेषु पुष्पेषु दृश्यमानेष्वथादिशेत् ।
सुवर्णलाभं रत्नानां विविधानामथागमम् ॥
श्वेतपुष्पे पुत्रलाभं रुक्मलाभं च पीतके ।
महिष्यास्त्वादिशेद्राज्ञो हस्तिन्या यदि दन्तयोः ॥
अथाशुभपुष्पदन्तलक्षणम् ।
भागे प्रशस्ते यत् पुष्पं श्वेतं च परुषं भवेत् ।
- ↑ मांसविद्रुमसंकाशम्-इति क्व चित् पाठः ।