पृष्ठम्:अद्भुतसागरः.djvu/६१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०५
गजाद्भुतावर्त्तः ।

 अथ चेद्भज्यते रात्रौ विषाणं यदि हस्तिनः ॥
 शूद्रान् म्लेच्छाँश्च दस्यूँश्च भयं स्पृशति दारुणम् ।
 यदा विषाणं भज्येत व्रजत्यस्तं दिवाकरे ॥
 तदा विद्यान्नरपतेर्वित्तनाशमुपस्थितम् ।
 कृत्तिकास्वशुभी भङ्गः पापदेशे यदा भवेत् ॥
 तदा प्रकुरुते राज्ञो वित्तनाशमुपस्थितम् ।
 ज्येष्ठायां वारुणे मूले गर्हितः पापदेशजः ॥
 दन्तभङ्गो भवेन्नित्यं नृपतेर्भूमिनाशनम् ।
 आर्द्रायां त्रिषु पूर्वेषु भरणीषु मघासु च ॥
 अहिदेवेषु ये भङ्गाः पापाः स्युः पापदेशजाः ।
 ते भवन्ति शुभा राज्ञः प्रोच्यन्ते क्षिप्रमेव च ॥
 एतेष्वेव च ये भङ्गा दारुणा इतरेषु च ।
 नक्षत्रेषु यथोक्तेषु शुभाश्च शुभदेशजाः ॥
 ते मन्दफलपाकाः स्युरिति शास्त्रविनिश्चयः ।
 त्रिषूत्तरेषु रोहिण्यां पुनर्वसुविशाखयोः ॥
 पापाः स्युः पापदेशस्था भङ्गाः पापमहाफलाः ।
 चित्राश्वयुग्धनिष्ठासु रेवस्यां पुष्यहस्तयोः ॥
 मृगशीर्षे तथा खातौ नक्षत्रे श्रवणेऽपि च ।
 ये भवन्त्यशुभा भङ्गाः पापदेशसमाश्रिताः ॥
 ते वैरिणि च पच्यन्ते भवन्त्यल्पफलास्तथा ।
 यः पापः पापदेशस्थो नक्षत्रैः सग्रहो भवेत् ॥
 विषाणभङ्गो नागस्य स च मन्दफलो भवेत् ।
 पक्षच्छिद्राणि सर्वाणि निन्दाद्यास्तिथयस्तथा ॥