पृष्ठम्:अद्भुतसागरः.djvu/५८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७४
अद्भुतसागरे ।

वराहः ।

 भिन्नभैरवदीनार्त्तपरुषक्षामजर्जराः ।
 स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूजिताः ॥

वसन्तराजस्तु ।

आर्त्तभीतरवजर्जरदीप्ता भिन्नकण्ठलघुभैरवरूक्षाः ।
निन्दनीयनिनदाः शुभशब्दाः शान्तपूर्णमुदिताः प्रकृतास्तु ॥

पराशरस्तु ।

 तिथिवातार्कभस्थानचेष्टादीप्ता यथाक्रमम् ।
 धनसैन्यबलाङ्गेषु कर्मणां स्युर्भयङ्कराः ।
 जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् ।
 उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः ॥
 चितिकेशकपालेषु मृत्युबन्धवधप्रदाः ।
 कण्टकीकाष्ठभस्मस्थाः कलहाय सुदुःसहाः ॥
 अप्रसिद्धतया चापि निःसारास्थिव्यवस्थिताः ।
 कुर्वन्ति शकुना दीप्ताः शान्ता जाप्यफलास्तु ते ॥
 कलहस्वरदीप्तेषु स्थानदीप्तेषु विग्रहः ।
 उच्चमादौ ध्वनिं कृत्वा नीचं पश्चाच्च मोघकृत् ॥

वसन्तराजस्तु ।

भवेदनल्पः प्रथमं ततोऽल्पस्वरोऽनुकूलोऽपि नरस्य यस्य ।
मुष्यन्ति नूनं पथि तस्करास्तं यत्नेन तस्माच्छकुनाः परीक्ष्याः ॥
तिथ्या समीरेण तथा सवित्रा नक्षत्रचेष्टास्थितिभिश्च दीप्ताः ।
धनस्य सैन्यस्य बलायोश्च कर्मेष्टयोश्च क्रमतो भयाय ॥

पराशरः ।

 अङ्गारिण्यामतिक्रान्तं दीप्तायां प्रत्युपस्थितम् ।
 प्रधूमितायामागामिशान्तं शान्तासु निर्दिशेत् ॥