पृष्ठम्:अद्भुतसागरः.djvu/५७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७१
सर्वशाकुनाद्भुतावर्त्तः ।

वसन्तराजस्तु ।

अश्वोष्ट्रमार्जारखरा रजन्यां शशो मृगो वा शिशिरे व्यलीकाः ।
हेमन्तकाले महिषर्क्षसिंहा विलेशयद्वीपिशिशुप्लवङ्गाः ॥
स्यातां वृथा काकपिकौ वसन्ते वृथा वराहश्च वृका नभस्ये ।
स्युः श्रावणे वारणचातकाद्या अजाविगोक्रौञ्चनिभा घनान्ते ॥

पराशरस्तु ।
 अथ शकुनेषु कोकिलमयूरजीवञ्जीवकप्रियपुत्रराजपुत्रगोदापुशतपुत्रदात्यूहमदनसारिकावर्षाभूकोयष्टिकमहापुष्परवशकदण्डिमाणवकवायसकुक्कुटचकोरक्रौञ्चसारङ्गप्लवगचित्रकापीतपुष्परथोष्ट्ररथादीनां वसन्तग्रीष्मौ मदकालः । शतपत्रोत्क्रोशमृगराजमयूरकोकिलबकबलाकाप्लवगप्रीणनचातकसारङ्गानां वर्षाः । चकोरकादम्बमदनसारिकाकीरपुष्परथचातकहंसचक्रवाकसारसकुरकक्रौञ्चकारण्डभ्रंमराणां शरत् । श्येनकुररक्रौञ्चसारसादीनां हेमन्तशिशिरौ । एवमादयः शकुनामदकालश्च । मृगात्मनां पुरुषस्त्रीनामकशिवाशशजम्बूकसृमरचमरसूकरवानरमार्जार नकुलगजगवयवृषमशकमहिषमूषकसिंहव्याघ्रकूर्मबलाकादीनां प्रायसः सर्वेषां वसन्तो मदकालः । विशेषतश्च नरव्याघ्रादीनां प्रावृट् । वृषभेरण्डमहिषगवयसृमरचमराणां शरत् । गोगवयवृषादीनां हेमन्तशिशिरौ ।
वराहः ।

 न ग्राम्यो वन्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः ।
 दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ॥

शुभशकुने च गृह्यत इत्यर्थः ।
यदाह वसन्तराजः ।

ग्राम्यो बहिर्ग्रमगतश्च वाऽथो दिवाचरो निश्यदिवाचरोऽह्नि ।
वृथाऽथ वा स्वस्थितिकालहीनश्चरन् भ्रमन् भूपतिदेशभीत्यै ॥