पृष्ठम्:अद्भुतसागरः.djvu/५७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७०
अद्भुतसागरे ।

तभूरीश्वरश्च तत्प्रचोदितं जीवाजीवमित्यलं सूचकं च निमित्तमाचक्षते मुनयः ।
वराहः ।

 द्वन्द्वरोगार्दितत्रस्तकलहामिषकाङ्क्षिणः ।
 आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्व चित् ॥

वसन्तराजः ।

नीडेषु सक्तो रतमांसलुब्धो भीतः प्रमत्तः क्षुधितो रुगार्त्तः ।
तथा च बालो वनमन्तरेण ग्राह्यो न नद्यन्तरिस्तथा यः ॥

मयूरचित्रे तु ।

 वन्दिनो रोगिणोऽथार्त्ता भीता युद्धामिषैषिणः ।
 सीमानदीव्यपेताश्च सर्वैराश्चैव निष्फलाः ॥

वटकणिकायां वराहः ।

द्वन्द्वार्त्तरोगार्दितभीतमत्तवैरार्त्तयुद्धामिषकाङ्क्षिणश्च ।
सीमान्तनद्यन्तरिताश्च सर्वे न चिन्तनीयाः सदसत्फलेषु ॥

पराशरस्तु ।
मत्तवित्रस्तव्याधितव्यङ्गकलहामिषासक्तविद्रुतानि प्रमाणानि न प्रमाणीकुर्यात् ।
वराहः ।

 रोदिताश्वाजबालेयकुरङ्गोष्ट्रमृगाः शशः ।
 निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलाः ॥
 न तु भाद्रपदे ग्राह्या सूकराश्च वृकादयः ।
 शरद्यजाविकाः क्रौञ्चाः श्रावणे हस्तिचातकौ ॥
 व्याघ्रर्क्षवानरद्दीपिमहिषाः सविलेशयाः ।
 हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानषाः ॥