पृष्ठम्:अद्भुतसागरः.djvu/५६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६०
अद्भुतसागरे ।

औशनसे ।

 चतुरस्कं द्विशीर्षं च गात्रैरभ्यधिकं तथा ।
 एकचक्षुरचक्षुर्वा दशनैः पलितैस्तथा ॥
 व्यञ्जनैश्चैव संपन्नं मानुषी यत्र सूयते ।
 द्विसंवत्सरपर्यन्ते राजा तत्र विनश्यति ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।

 अकालप्रसवा नार्यः कालातीतप्रजास्तथा ।
 विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा ॥
 अमानुषा अमुण्डाश्च संजातव्यञ्जनास्तथा ।
 हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥
 पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।
 "विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत्” [१]

पराशरस्तु ।
स्त्रीणामब्दद्वयं गर्भधारणं त्रिचतुर्विकृतपक्षिपशुनागजननं वा कुलदेशविनाशाय ।
ओशनसे ।

 मानुषी जनयेद्यत्र त्रिशीर्षान् विविधान् पशून् ।
 षण्मासोर्ध्वं भयं तीव्र तत्र तूत्पद्यते महत् ॥
 परचक्रागमं चैव निर्दिशेदिह शास्त्रवित् ।
 संग्रामश्चात्र विपुलो जायते विकृतात्मकः ॥
 सर्पं वा पक्षिणं वाऽपि जनयेद्यत्र मानुषी ।
 प्रवासस्तस्य देशस्य सप्तमासात् परं भवेत् ॥

बृहद्यात्रायां वराहः ।

 देहनाशो यदा स्त्रीणां खगाहिपशुसम्भवः ।


  1. मत्स्यपुराणे २३५ अ, १-३ श्लो. ।