पृष्ठम्:अद्भुतसागरः.djvu/५५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४८
अद्भुतसागरे ।

विष्णुधर्मोत्तरे ।

 अर्धमासेन दुर्गन्धप्रभवस्य शरीरतः ।

मार्कण्डेयपुराणे च ।

 यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।
 तस्यार्धमासिकं ज्ञेयं योगिनो नृप जीवितम् ॥

वस्तसमश्छागसम इत्यर्थः ।
लिङ्गपुराणेऽप्येवम् ।
पराशरस्तु ।
 अर्धमासाच्छवशोणितकुणपविण्मूत्रामनोज्ञगन्धप्रवर्त्तनहेतुकं गात्रेभ्यः -इति ।
कुणपः पिशाचादिः ।
देवलः ।

 शवगन्धो भवेद्यस्य द्वादशाहं स जीवति ।

कालावल्यां तु ।

 शवगन्धो भवेद्यस्य तिस्रो रात्रीः स जीवति ।

आदिपुराणे तु ।

उत्खातरोमाञ्चविरक्तदेहो निर्वर्षदन्तो विकृताननश्च ।
एभिर्दिनैः शावगन्धं प्रयाति परां च तां मण्डलां संप्रकर्त्तुम् ॥

सुश्रुतस्तु ।

 पक्वमत्स्य[१]वशातैलघृतगन्धाश्च ये नराः ।
 मद्यगन्धाश्च ये यान्ति गतास्ते यमसद्मनि ॥

चरकस्तु ।

 नानापुष्पोपमा गन्धा यस्य चाभिदिवानिशम् ।
 पुष्पितस्य वनस्येव नानाद्रुमलतावतः ॥
 तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः ।
 स चैवं वत्सराद्देहं जहातीति न संशयः ॥


  1. पङ्कमत्स्य-इति क्व चित् पाठः ।