पृष्ठम्:अद्भुतसागरः.djvu/४४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३१
देवप्रतिमाद्भुतावर्त्तः ।

 योगक्षेमाय लिङ्गाभ्यासीदनं चक्रवैकृते ॥
 देवतायतने चापि यात्रायां वा महोत्सवे ।
 अनोऽक्षचक्रकेतूतां युगस्य च विदारणम् ॥
 भङ्गे पाते सादने वा समपर्यासनेऽपि वा ।
 तस्य देशस्य राज्ञश्च विन्द्यादशुभमागतम् ॥

वराहसंहितायां च ।

 दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि ।
 समपर्यासनसादनभङ्गाश्च न देशनृपशुभदाः ॥

इदं च देवताद्भुतम् । यदीया देवतार्चा तदद्भुतफलं च नयति । असति तु सम्बन्धविशेषे नृपगतं तत्परिकरगतं तद्देशगतं च ।
तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 देवतायतनस्थाश्च कुरुराजस्य देवताः ।
 "कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च "[१]

वैजवायः ।

 देवतार्चाविकारेषु प्रतिमार्चनपूर्विकाम् ।
 कारयेद्वैष्णवीं शान्तिं देवराजशुभप्रदाम् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 देवताया विकारेषु श्रुतिं वेत्ति पुरोहितः ।
 देवतानां तु गत्वाऽपि स्नानमाच्छाद्य भूषयेत् ॥
 पूजयेच्च महाभाग गन्धमाल्यानुलेपनैः ।
 मधुपर्केण विधिवदुत्तिष्ठेत् तदनन्तरम् ॥
 तल्लिङ्गेन च मन्त्रेण स्थालीपाकं यथाविधि ।
 पुरोधा जुहुयाद्वह्नौ सप्तरात्रमतन्द्रितः ॥
विप्राश्च पूज्या मधुनाऽन्नपानैः सदक्षिणं सप्तदिनं नरन्द्र ।


  1. ११२ अ. ११ श्लो. । तत्र कुरुराजस्य देवता इत्यत्र 'कुरुराजेन्द्रदेवताः' इति ।