पृष्ठम्:अद्भुतसागरः.djvu/३९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८०
अद्भुतसागरे ।

पराशरः ।

 अङ्गारसिकतापांशुप्रवर्षणं पुरविनाशाय । तथा मज्जासृक्स्नेहमांसास्थिवर्षणं जनमारभयाय ।

वराहसंहितायां च ।

 अङ्गारपंशुवर्षे विनाशमुपयाति तन्नगरम् ।

औशनसे तु ।

 अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति ।
 क्षिप्रं तत्र भयं घोरं प्रवर्त्तेत चतुर्विधम् ॥
 मांसवर्षं च मघवा यत्र देशेषु वर्षति ।
 अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥
 परचक्रागमः शीघ्रं विज्ञेयं सुमहद्भयम् ।
 अहिताश्चात्र जायन्ते विपुला विकृतात्मकाः ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 फलपुष्पशमीधान्यं हिरण्यं वा भयावहम् ।

वृष्टिमिति सम्बन्धः ।
वराहसंहितायां च ।

 धान्यहिरण्यत्वत्रफलकुसुमाद्यैर्वषिते भयं विन्द्यात्

मत्स्यपुराणे ।

 पांशुजन्तूपलानां तु वर्षणे रोगजं भयम् ।

पराशरः ।

 लोमोपलासवक्षीरदधिमधुघृततैलमत्स्यभेकपक्षिशस्यवर्षणं दुर्भिक्षाय ।

ओशनसे तु ।

 सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति ।
 तत्र शस्त्रोपघातः स्याद्भयं चातिप्रवर्त्तते ॥
 सुरासवं तथा क्षौद्रं सर्पिस्तैलं पयो दधि ।
 यत्र वर्षति पर्जन्यः क्षुद्रोगस्तत्र जायते ॥