पृष्ठम्:अद्भुतसागरः.djvu/३८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७८
अद्भुतसागरे ।

भयं शस्त्रभयम् ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 शोणितं वर्षते यत्र तत्र शस्त्रभयं वदेत् ।

स्कन्दपुराणे तु प्रह्लादपराजयनिमित्तम् ।

 प्रस्रुताः क्षतजं मेघाः.........।

तत्रैव देवासुरयुद्धे देवानां पराजयनिमित्तम् ।

 अनभ्रे भयदं वर्षमपतद्रुधिरं बहु ।

हरिवंशे बाणपराजयनिमित्तम् ।

 "देवानामपि यो देवः सोऽभ्यवर्षत वासवः ।
 शोणितं शोणितपुरे सर्वतः पुरमन्तिकात् [१]

भागवते विष्णोरुत्क्रान्तिनिमित्तम् ।

 “असृग्वर्षन्ति जलदाः .........[२]

आदिपर्वणि गजकच्छपभक्षणनिमित्तम् ।

 "उत्पातमेघा रौद्राँश्च ववृषुः शोणितं बहु[३]

आग्नेयपुराणहरिवंशमत्स्यपुराणेषु हिरण्यकशिपुवधनिमित्तम्

 “देवानामपि यो देवः सोऽभ्यवर्षत शोणितम्”[४]

मयूरचित्रे ।

 रक्तवर्षे तथाऽऽकाशशब्दे नरपतेर्वधः ।

हरिवंशे कंसवधनिमित्तम् ।

 "प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः”[५]

स्कन्दपुराणे तारकवघनिमित्तम् ।

 रूक्षा रुक्षाशनिरवाडम्बरोल्मुकसन्निभाः ।
 ववर्षुर्जलदास्तोयं रुधिराग्निविमिश्रितम् ॥


  1. ११६ अ. ६० श्लो.। तत्र 'सर्वतः परमं ततः' इति पाठः ।
  2. नोकस्थले उपलभ्यते ।
  3. ३० अ, ३७ श्लो. ।
  4. हरिवंशे भविष्यपर्वणि ४६ अ, १६ श्लो.।मत्स्यपुराणे १६३ अ. ४४ श्लो. ।
  5. २३ अ, ३२ श्लो ।