पृष्ठम्:अद्भुतसागरः.djvu/३७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६८
अद्भुतसागरे ।

 मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासाः ।
 जलचरमत्स्याकारा गर्भेषु घनाः प्रभूतजलाः ॥
 तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
 रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥

वटकणिकाबृहत्संहितयोः ।

 पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः
  स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
 विसृजति यदि तोयं गर्भकालेऽतिभूरि-
  प्रसवसमयमित्वा शीकराम्भः करोति ॥

वटकणिकायाम् ।

 गर्भोपघातलिङ्गाद्युल्काशनिभूमिकम्पनिर्घाताः ।
 ग्रहयुद्धराहुशिखिनो भङ्गं खपुरं रजो वाऽपि ॥

बृहद्यात्रायाम् ।

 गर्भोपघातलिङ्गद्युल्काशनिपांशुपातदिग्दाहाः ।
 क्षितिकम्पखपुरकीलककेतूग्रहयुद्धनिर्घाताः ॥
 रुधिरादिवृष्टिवैकृतपरिवेषेन्द्रधनूंषि दर्शनं राहोः ।
 इत्युत्पातैरेतैस्त्रिविधेश्चान्यैर्हतो गर्भः ॥
 स्वर्त्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।
 गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥
 भाद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
 सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति[१]

वटकणिकाबृहत्संहितयोः ।

शतभिषगाश्लेषार्द्रास्वातिमघासंयुतो गर्भः ।


  1. एते श्लोका  बृहत्संहितायामप्युपलभ्यन्ते ।