पृष्ठम्:अद्भुतसागरः.djvu/३७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६०
अद्भुतसागरे ।

 तत्रातिवृष्टिर्भवति स्वल्पं बीजानि वापयेत् ॥
 वर्णस्नेहोपपन्नास्तु पूर्ववृष्टाः पयोधराः ।
 सौम्या यत्र प्रवर्षेयुस्तत्र सर्वगुणाः स्मृताः ॥

अथ संस्थानि वराहसंहितायाम् ।

 विलम्बिनो द्रुमोपमाः स्ववारुणप्रकाशिनः ।
 घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ।

विष्णुधर्मोत्तरे ।

 ..........मेघैश्चायुधसन्निभैः ।
 उदयास्तमये छन्नः पार्थिवानां न शस्यते ॥

वृद्धगर्गः ।

 उद्यत्यर्के धनूरूपै रुध्यमाने च तोयदैः ।
 परचक्रागमो वाच्यः प्रजानाशस्तथैव च ॥

वराहसंहितायाम् ।

 आयुधभं नररूपं छिन्नाभ्रं परभयाय रविगामी ।

भार्गवीये।

 अश्वस्था वारणस्थाश्च रथस्थाश्च यदा नराः ।
 मेघेषु संप्रदृश्यन्ते सयोधाः सकुलध्वजाः ॥
 तथा सवारणाश्चैव निघ्नन्तश्च परस्परम् ।
 क्रव्याद्भिर्भक्षमाणाश्च गृध्रगोमायुवायसैः ॥
 उद्योतन्ते यदा युक्ता राज्ञां संशयकारकाः ।

अथावृक्षादिफलम् । तत्र पराशरः ।
 अथाभ्रविकारेषु वृक्षपरिघस्तनितसंचयात्मकेषु सद्यः फलमादिशेत् । अत्र सप्तरात्राद्वा षण्मासात् तु गर्भकालजं वर्षम् । तत्र वृक्षेष्वेव तावद्यदि सन्ध्यायां पीतमाञ्जिष्ठो दृश्येताभ्रवृक्षः । शान्तायां दिशि राज्ञो विनाशाय स्यात् । स एव दीप्तायां दक्षिणतो वाऽर्कस्य