पृष्ठम्:अद्भुतसागरः.djvu/३३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२३
अद्भुतसागरे

 श्रीवृक्षवज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ॥

एता एव यदा भ्रमन्तः पतन्ति तदा दोषावहा भवन्ति ।
यदुक्तं गार्गीये ।

 छत्रध्वजझषाकारा भ्रमन्ती निपतेद्यदि ।
 महोल्का सप्तरात्रेण सा निहन्यान्नृपोत्तमम् ॥

मयूरचित्रे ।

 इन्द्रध्वजरथाकारा भ्रमन्ती निपतेद्यदि ।
 महोल्का सप्तरात्रेण सामात्यं हन्ति पार्थिवम् ॥
 नागाश्वरथरूपाश्च ससैन्यं घ्नन्ति पार्थिवम् ।
 महीधरनिभास्तास्तु घ्नन्ति देशं सराजकम् ॥

वराहसंहितायाम् ।

सुरपतिचापप्रतिमा राष्ट्रं नभसि विलीना जलदान् हन्ति ।
पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥

बार्हस्पत्ये तु ।

 राष्ट्रमिन्द्रायुधप्रख्या मत्रिणं चक्रसन्निभा ।
 विलीयमाना नभसि हिनस्त्युल्का पयोधरान् ॥
 प्रजावैकल्यकारिण्यो वायोश्च प्रतिलोमगाः ।
 नभोमध्यं च या यान्ति याश्च कुर्युर्गतागतम् ॥

वराहसंहितायाम् ।

 वर्हिपुच्छरूपिणी लोकसंक्षयावहा ।
 सर्पवत् प्रसर्पिणी योषितामनिष्टदा ॥

बार्हस्पत्ये तु ।

 मयूरपिच्छानुगता कुर्यादुल्का जनक्षयम् ।
 स्त्रीणामनिष्टदा ज्ञेया या च सर्पति सर्पवत् ॥
 उल्कासङ्घैः परिवृता याः पतन्ति नभस्तलात् ।
 अनुसारिण्य उल्कास्ता राजराष्ट्रभयावहाः ॥