पृष्ठम्:अद्भुतसागरः.djvu/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१०
अद्भुतसागरे

अथ फलपाकसमयमाह पराशरः ।

 निर्घातस्तु त्रिभिर्मासैः-इति ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे निर्घाताद्भुतावर्त्तः ।


अथ सन्ध्याद्भुतावर्त्तः ।

तत्र सन्ध्यासमयो वराहस्संहितायाम् ।

 अर्धास्तमयात् सूर्यात् संदृष्टास्तारका यावत् ।
 तेजःपरिहानिमुखाद्भानो रुद्धोदयो यावत्[१]

अथ शुभसूचकलक्षणं वराहसंहितायाम् ।

 शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च ।

पराशरस्तु ।

 निर्वातनिर्मलस्निग्धायां शान्तमृगद्विजायां प्रसन्नायामनुपहतायां योगक्षेमं विन्द्यात् ।

वराहसंहितायां तु ।

 मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा ।
 मधुरस्वरशान्तविहङ्गमृगरुता पूजिता सन्ध्या ॥

वटकणिकायाम् ।

 स्निग्धा प्रशान्तशकुना मृदुमारुता च
  सन्ध्या सहस्रकिरणानुसमानवर्णा ।
 शस्ता पयोदसमये कुरुतेऽतिवर्षं
  वृष्टिं रुणद्ध्यशुभदा च विपर्ययेण ॥

अथाशुभसूचकसन्ध्यालक्षणं बार्हस्पत्ये ।

 तमोधूमरजस्काभ्रदीप्तद्विजमृगावृताः ।


  1. अ. पुस्तकेऽन्यथा पाठदर्शनाद्वटकणिकाया इदं पद्यमित्यनुमीयते ।