पर्वोक्तेन तु मन्त्रेण दद्याद्वत्सवृषादिकम् ॥
कुसुम्भस्याथ वा होमः केतुं कृण्वेति मन्त्रतः ।
इन्द्रनीलं सुवर्णं च दातव्यं च द्विजन्मने ॥
भार्गवोये ।
उत्थानं चैव केतूनां विनाशयेति हि स्मृतम् ।
तस्मादाथर्वणैर्मन्त्रैः शमनं कारयेद्बुधः ॥
आराधिताः शमं यान्ति ते ह्युत्पाता न संशयः ।
होमैर्जपैश्च विविधैर्दानैश्च बहुरूपकैः ॥
तस्य यत्र शिरोदेशस्तत उत्थाय वा व्रजेत् ।
धनं वा सर्वमुत्सृज्य मृत्योर्मुच्येत वा न वा ॥
दत्वा च पृथिवीं सर्वां राजा शान्तिं नियच्छति ।
अथ वर्णाद्भुते ।
केतूस्थिते तु सर्वस्मिन् भये तु समुपस्थिते ।
महाशान्तिं प्रकुर्वन्ति विविधां भूरिदक्षिणाम् ॥
उपयाति शमं सर्वं प्रजानां च सुखं भवेत् ।
राजानो मुदितास्तत्र पालयन्ति वसुन्धराम् ॥
पराशरः ।
यस्याभिषेकनक्षत्रं जन्म कर्मभं तथा ।
देशर्क्षं पीडयेत् केतुः सशान्तिपरमो भवेत् ॥
केतुपीडितेष्वभिषेकादिनक्षत्रेषु केतुग्रहपूर्विका नाडीनक्षत्राद्भुतविहिता सामान्यशान्तिः कर्त्तव्या । तां च नाडीनक्षत्राद्भुतावर्त्ते लिखिष्यामः ।
वृद्धगर्गः ।
एतत् ते केतुचक्रं तु केतुसंभव एव च ।
लक्षणं दर्शनं चैव यथावत् परिकीर्त्तितम् ॥
एतच्छिष्याय दातव्यं ब्राह्मणाय महात्मने ।