पृष्ठम्:अद्भुतसागरः.djvu/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८८
अद्भुतसागरे

अतः परममृतोद्भवस्यावर्त्तकेतोरुदयः । तत्र वृद्धगर्गः ।

 अतिक्रान्ते स्वधौ केतौ निर्गते घोरदर्शने ।
 आवर्त्तकेतुरात्मानं दर्शयत्यमृतोद्भवः ॥
 उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ।
 यानि पूर्वाणि चोक्तानि पद्मकेतोः प्रदर्शने ॥

अथास्य लक्षणम् ।

 पश्चिमेनोदितः श्रीमान् शिखां शङ्खोदरारुणान् ।
 पूर्वेणाभिनतां कृत्वा रात्र्यर्धे संप्रदृश्यते ॥
 प्रदक्षिणावर्त्तगतिः शिखया प्रहसन्निव ।
 दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
 स दृष्ट एव षण्मासान् पक्षं चैव परं शिखी ।
 सुवृष्टिं क्षेममारोग्यं सुभिक्षं कुरुते महत् ॥
 यज्ञोत्सवप्रदानैश्च मही भवति संकुला ।

पराशरस्तु ।

 अथावर्त्तकेतुः स्वधिकेतोः कर्मण्यतीते अपरस्यामर्धरात्रेण शङ्खोदरारुणाभया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् निशि दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्यं यज्ञोत्सवश्व जगतः ।

वराहसंहितायां च ।

 आवर्त्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
 यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥

अतः परं रश्मिकेतोरुदयः । तत्र पराशरः ।

 अथ रश्मिकेतुर्विभावसुनः प्रोष्य वर्षशतमावर्त्तकेतोश्चारान्ते कृत्तिकासु धूम्रशिखः श्वेतकेतोः सदृशफलः ।