पृष्ठम्:अद्भुतसागरः.djvu/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७१
कत्वद्भुतावर्त्तः ।

पराशरस्तु ।

 तत्र वसाकेतुः स्निग्धो महानुदगायतशिखस्त्रिंशद्वर्षशतं प्रोष्य संप्लवेषु[१] पश्चिमेनोदितः स सद्यो मरकफलः सौभिक्षकरः । रूक्षोऽस्थिकेतुरसौभिक्षकरस्तुल्य [२]प्रवासकालफलः । पूर्वेण स्निग्ध एव शस्त्रकेतुः शस्त्रवृत्तराजविरोधमरकफलः समो रूक्षः - इति ।

वृद्धगर्गस्तु ।

 उदगायतो महान् स्निग्धो वारुण्यामुदितो निशि ।
 वसाकेतुरिति ख्यातः सद्यो मरककारकः ॥
 स दृष्ट एव कुरुते सौभिक्षमिति चोत्तमम् ।
 उग्रया शिखया भीमो दक्षिणेन नताग्रया ॥
 अस्थिकेतुर्जनान् हन्याद्दुर्भिक्षमरकाग्निभिः ।
 स दृष्ट एवं पृथिवीमाप्लावयति वारिणा ॥
 रुक्षया शिखयाऽत्यर्थं क्षतजार्द्रप्रकाशया ।
 शस्त्रकेतुर्भवेत् प्राच्यां शस्त्रमृत्युकरो महान् ॥

अथापरेपामुदितानां मृत्युसुतानां फलमाह वृद्धगर्गः ।

 निकटालयसंस्था ये ये च उत्तरवासिनः ।
 चतुष्पथनिकेताश्च पुरत्रयनिवासिनः ॥
 एते चान्ये च वीभत्साः पुरुषादा निशाचराः ॥
 लोकानन्तर्हिता घ्नन्ति केतवो मृत्युसम्भवाः ॥

वसादिकेतूनामुदयानन्तरममृतस्य कुमुदकेतोरुदयः ।
तल्लक्षणं वराहसंहियाम् ।

 कुमुद इति कुमुदकान्तिर्वारुण्यां प्राकशिखो निशामेकाम् ।
 दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥


  1. संप्लवे युगे इति अ. ।
  2. भिक्षुकतुल्य - इति अ. ।