पृष्ठम्:अद्भुतसागरः.djvu/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५९
केत्वद्भुतावर्त्तः ।

 कालपुत्राः कबन्धाश्च नवतिः षट् च ते स्मृताः ।
 लोके मृत्युकरा घोरा भवन्त्यशुभदर्शनाः[१]

अथ मृत्युसुता वराहसंहितायाम् ।

 वक्रशिखा मृत्युसुताः कृष्णा रुक्षाश्च तेऽपि तावन्तः ।
 दृश्यन्ते याम्ययां जनमरकावेदिनस्ते च ॥

तावन्तः पञ्चचिंशतिरित्यर्थः । वराहेण पञ्चविंशतिसंख्यानां रविपुत्रकेतूनां पूर्वोक्तत्वात् ।
गर्गश्च ।

 रूक्षाः कृष्णा वक्रशिखा दृश्यन्ते याम्यदिकस्थिताः ।
 पञ्चविंशा मृत्युसुताः प्रजानां भयकारिणः ॥

अग्निपुत्रा वराहसंहितायाम् ।

 शुकवदनबन्धुयावकलाक्षाक्षतजोपमा हुताशसुताः ।
 आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥

तावन्तः पञ्चविंशतिः ।
तथा च गर्गः ।

 अग्निपुत्रा ग्रहा ज्ञेयास्तत्राग्निभयवेदिनः ।
 आग्नेय्यां दिशि दृश्यन्तं लोहिताः पञ्चविंशतिः ॥

अथान्यान् विश्वरूपसंज्ञानग्निपुत्रानाहाथर्वमुनिः ।

 नानावर्णाग्निसंकाशा ज्वालामाला विसर्पिणः ।
 विश्वरूपाः सुता अग्नेर्ग्रहा विंशच्छतं स्मृताः ॥

गर्गस्तु ।

 नानावर्णाग्निसंकाशाः दीप्तिमन्तो विशालिनः [२]
 सृजन्त्यग्निभिवाकाशे सर्वज्योतिर्विनाशनाः ॥
 तेऽप्यग्निपुत्रा विज्ञेयास्तीव्राग्निभयवेदिनः ।


  1. पुण्ड्राणामभयप्रदा इति अ ।
  2. विचूलिनः इति अ. ।