पृष्ठम्:अद्भुतसागरः.djvu/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५८
अद्भुतसागरे

 षष्टिस्ते कनका घोराः शनैश्चरसुता ग्रहाः ॥

अनुक्तत्वादेपामुदये दिङ्नियमो नास्ति । तथा च वराहसंहितायाम् ।

 स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्वराङ्गरुहाः ।
 अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ।

राहुपुत्रानाहाथर्वमुनिः ।

 कृष्णाभा कृष्णपर्यन्ताः कलुषाकृतिरश्मयः[१]
 राहुपुत्रास्त्रयस्त्रिंशत् कोलकाश्चातिदारुणाः ॥

वराहसंहितायां तु ।

 त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
 रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥
 तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
 ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ॥
 ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्गेऽपि ।

इत्यादि सप्रपञ्चं सूर्याद्भुतावर्त्त उक्तमिति ।
अथ कालसुता वराहसंहितायाम् ।

 षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
 पुण्ड्रा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥

 पुण्ड्राश्चित्रवर्णाः । पुण्ड्रा नाम ये जनपदास्तेषामभयप्रदा इत्युत्पलेन [२] व्याख्यातम् । तदयुक्तम् ।
यदाहाथर्वमुनिः ।

 पुण्ड्रताराः कबन्धाः स्यू रूक्षा भस्मसरश्मयः ।
 कालपुत्राः कबन्धास्ते स्मृताः षण्णवतिर्ग्रहाः ॥

गर्गश्च ।

 पुण्डूतारा विरूपाश्च कबन्धाकृतिसंज्ञिताः ।
 पीतारुणसवर्णाश्च भस्मकर्बुर[३]रश्मयः ॥


  1. संकुलाः कृष्णरश्मयः इति छ. ।
  2. द्रष्टव्या -२५२ पृ. ७ प. ।
  3. कर्पूर- इति अ. ।