पृष्ठम्:अद्भुतसागरः.djvu/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
अद्भुतसागरे

 सर्वे पीडां समृच्छन्ति जना यान्ति यमालयम् ॥

अथ प्रत्येकनक्षत्रचारफलं वराहसंहितायाम्

 तुरगतुरगोपचारककविवैद्यामात्यहाऽर्कजोऽश्विगतः ।
 याम्ये नर्त्तकवादकोगेयज्ञक्षुद्रनैकृतिकान् ॥

पराशरस्तु ।
 अश्विन्यामश्वारोहाश्वपालवैद्यामात्यकविनायकान् । भरणीषु वादकगायननर्त्तकक्षुद्रनैकृतिकान् पीडयति ।
वराहसंहितायाम् ।

 बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजोविनश्चमूपाश्च ।
 रोहिण्यां कोशलमद्रकाशिपाञ्चालशाकटिकाः ॥

पराशरस्तु ।
 आग्नेये प्रविचरन्नर्कजोऽग्निस्थलशूरसेना हिताग्निलोहकारधात्वाकराङ्गनाशौण्डिकाग्न्युपजिविन उपतापयति । प्राजापत्ये मद्रकपाञ्चालकाशिकोशलाङ्गशाकटिकाश्चालोड्यन्ते[१]
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।

 “रोहिणीं पीडयन्नेव स्थितो राजन् शनैश्वरः”[२]

यद्यपि 'चारेण पीडां कुरुतेऽर्कपुत्रः' - इत्येन चारमात्रेण शनैश्चरः पीडयतीत्युक्तं तथाऽपि कुरुपाण्डवसैन्यवधस्य गुरुत्वादत्र रोहिणीपीडनमवगन्तव्यम् ।
तथा च वराहसंहितायाम् ।

रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथ वा शिखी ।
किं वदामि यदनिष्टसागरे जगदशेषमुपयाति संक्षयम् ॥

गर्गः ।

 रोहिणीशकटं भौमो भिनत्यर्कसुतोऽथ वा ।
 केतुर्वा जगतो ब्रूयात् प्रलयं समुपस्थितम् ॥

वराहसंहितायाम् ।

 मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाश्च ।


  1. कन्यकाश्चोपताप्यन्ते अ. ।
  2. २ अ. ३२ श्लो. ।