पृष्ठम्:अद्भुतसागरः.djvu/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
अद्भुतसागरे

 काश्मीराश्मकमत्स्यान् सचारुदेवीमवन्ती च ॥
 अत्रारोहेद्द्रविडाभीराम्बष्ठत्रिगर्त्तसौराष्ट्रान् ।
 नाशयति सिन्धुसौवीरकाँश्च काशीश्वरस्य वधः ॥
 षष्ठं षण्नक्षत्रं शुभमेतन्मण्डलं धनिष्ठाद्यम् ।
 भूरिधनगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् ॥
 अत्रारोहेच्छौलिकगान्धारावन्तयः प्रपीड्यन्ते ।
 वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥

पराशरस्तु वैरोचनाख्यं चतुर्थमण्डलं चित्राद्यमाह । तद्यथा ।
 आद्यरोहितदारुणवैरोचनोर्ध्वदण्डतीक्ष्णानि षण्मण्डलानि । तत्र भरण्यादीनि चत्वारि चतुर्नक्षत्राणि । ज्येष्ठाश्रविष्टाद्ये द्वे पञ्चषण्नक्षत्रे । अथेतैषु मण्डलेषु प्रविचरन् क्रमात् गोब्रह्मचारिनृपपत्नी तनयसुहृद्भूपालप्रजानामुपतापाय ।तथैवोदयास्तमयौ कुर्वन् प्रथमेऽतीव सुभिक्षायाङ्गबङ्गशवरकलिङ्गाननयैः स्पृशति। अत्रैवान्यग्रहारूढोऽसौ माञ्जिष्ठपुरुषादशृरसेनपट्टच्चरपण्यागाराभावाय । द्वितीयेऽन्नसम्पत्प्रदोऽवन्त्यमकमालवपाण्ड्य कैकयोपद्रवाय। तृतीये शकसौराष्ट्रनृपानयायान्यग्रहारूढः काश्मीरयवनक्षुद्रमालवकिरातशकाननयेन युनक्ति । चतुर्थेषु वर्षशस्यक्षेमाणि विधत्ते । अन्यग्रहारूढः सुभगान् शिक्षिताँश्चोपतापयति । पञ्चमे मगधान् शूद्रान् जनननयैः स्पृशति । अत्रैवान्यग्रहारूढो व्याधिभयदुर्भिक्षाय वर्षाणि सृजति । विशेषतस्तु कुरुपाञ्चलशाल्वेयशूरसेनपटच्चराहारप्रभृतयोऽभिपीड्यन्ते । षष्ठे बालगर्भान् बालशूद्रान् हिनस्ति । यद्यारोहेत तदा काम्बोजैः सैन्धवो नृपतिः पराजायेत । आवन्त्यश्मकाधिपती चोपस्सृज्येते ।