पृष्ठम्:अद्भुतसागरः.djvu/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
अद्भुतसागरे

ण्डलं सुभिक्षजननम् । रौद्राद्यमपि चतुष्टयं द्वितीयं सुभिक्षजननमेव । मघाद्यं पञ्चर्क्षं तृतीयं शस्यम् । स्वात्याद्यं पञ्चनक्षत्रं चतुर्थमभयप्रदम् । शाकात् पञ्चर्क्षं पञ्चमं च रोगजननम् । धनिष्ठाद्यं षड्नक्षत्रं वसमतिवृद्धिकरम् ।
वृद्धगर्गस्तु ।

 भरण्यादीनि चत्वारि प्रथमं शुक्रमण्डलम् ।
 सर्वभूतहितं नाम क्षेमसौभिक्षवर्षदम् ॥
 शाल्वाधिपः शूरसेनः पीड्यते मगधाधिपः ।
 मत्स्याधिपः शिम्बिपतिर्गवां रोगं च निर्दिशेत् ॥
 आर्द्रादिरोहिणीं नाम द्वितीयं शुक्रमण्डलम् ।
 चण्डातिवर्षी पर्जन्यः सर्वशस्यानि भावयेत् ॥
 क्षेमारोग्यसुभिक्षैश्च मोदन्ते सर्वतः प्रजाः ।
 कलिङ्गाश्मकविप्राणामनयस्तत्र जायते ॥
 मघादिदारुणं नाम्ना तृतीयं शुक्रमण्डलम् ।
 अहितं सर्वभूतानां दारुणव्याधिसंकुलम् ॥
 संजातान्यपि नश्यन्ति सर्वशस्यानि चेतिभिः ।
 उद्योगाश्चापि जायन्ते वायुरग्निश्च कुप्यति ॥
 वैरोचनं चतुर्थं तु खात्याद्यं शुक्रमण्डलम् ।
 शिवाभिवर्षी पर्जन्यः शर्वशस्यानि भावयेत् ॥
 सुभिक्षं जायते लोकं सन्धिं कुर्वन्ति पार्थिवाः ।
 यज्ञोत्सवसमाजैश्च प्रजा नन्दति भूरिशः ॥
 ज्येष्ठाद्यमूर्धदण्डं च पञ्चमं शुक्रमण्डलम् ।
 उद्युक्तदण्डा राजानस्तत्र यान्ति पराभवम् ॥