पृष्ठम्:अद्भुतसागरः.djvu/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
बृहस्पत्यद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 शोककृच्छुभकृत् क्रोधी विश्वावसुपरावसू ।
 वैश्वे पञ्च शुभौ येषामब्दौ राजन् द्विपञ्चमौ ॥

वराहसंहितायां तु ।

वैश्वे युगे शोककृ[१]द्वित्यथाद्याः संवत्सरोऽतः शुभकृद्द्वितीयः ।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति परावसुश्च[२]
पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः ।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्त्तिद्विजगोभयं च ॥

विष्णुधर्मोत्तरे ।

 प्लवङ्गः कीलकः सौम्यः समो रोधकृदेव च ।
 सौम्ये पञ्च शुभौ येषां प्रथमानन्तरावुभौ ॥

वराहसंहितायां तु ।

आद्यः प्लवङ्गो नवमेयुगेऽब्दः स्यात् कीलकोऽन्यःपरतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं शुभप्रदौ कीलकसौम्यसंज्ञौ ॥
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यत् पञ्चमं रोधकृदित्यथाब्दं चित्रं जलं तत्र च शस्यसम्पत् ॥

विष्णुधर्मोत्तरे।

 धावनं मथनं वीरं राक्षसं चानलं तथा ।
 इन्द्राग्निदैवते पञ्च सर्व एवाशुभप्रदाः ॥

वराहसंहितायां तु ।

इन्द्राग्निदेवं दशमं युंगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् ।
प्रमाथिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ॥
परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोषः ।
अलसस्तु जनः प्रमाथिसंज्ञे मरकं रक्तकपुष्पवीजनाशः ॥


  1. शोकहृत् इति भट्टोत्पलसम्मतः पाठः ।
  2. पराभवश्च इति अ, ।