पृष्ठम्:अद्भुतसागरः.djvu/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३
बृहस्पत्यद्भुतावर्त्तः ।

 योः प्राक्परशस्यानां वृद्धिक्षयौ मध्यक्षेमवर्षणमन्योन्यभेदश्च । श्रवणश्रविष्ठावारुणेषु यज्ञनृपशस्यवर्षक्षेमारोग्यवृद्धये । अजाहिर्बुध्न्यपौष्णेष्वाषाढफलं प्राक्शस्यविपर्ययः । प्रभूतशस्यविक्षेप[१] क्षेमाण्यश्वयुग्भरण्योः ।
विष्णुधर्मोत्तरे ।

 आग्नेयकेशगे जीवे वर्षे स्याद्वह्निदैवतम् ।
 अहितं तु विनिर्दिष्टं गोद्विजाग्न्युपजीविनाम् ॥

केशगे रोहिणीगते ।
गर्गस्तु ।

 कार्त्तिकः प्रचुरातङ्कः क्षुच्छस्त्राग्निभयप्रदः ।
 गोशाकटिकपीडाकृद्वारुणोऽवर्षकृन्मतः ॥

वराहसंहितायां तु ।

 शकटानलोपजीविकगोपीडाव्याधिकोपश्च ।
 वृद्धिस्तु रक्तपीतककुसुमार्ना कार्त्तिके वर्षे ॥

वृद्धगर्गस्तु ।

 कृत्तिकां रोहिणीं चापि चरेद्यदि बृहस्पतिः ।
 अब्दः स कार्त्तिको नाम भयव्याधिसमाकुलः ॥
 अग्निः कुप्यति शस्त्रं च चित्रं वर्षति वासवः ।
 अपरं पुष्कलं विन्द्यात् पूर्वशस्यमपुष्कलम् ॥

कार्त्तिकः ।
विष्णुधर्मोत्तरे ।

 सौम्यरौद्रोपगे जीवे सौम्यं वर्षमुदाहृतम् ।
 ईतयः सकलास्तत्र अनावृष्टिभयं तथा ॥

गर्गस्तु ।

 वर्षाहन्ता विशुष्काम्बु[२] मिथोभेदभयावहः ।


  1. प्रभूतजलशस्यर्द्धिजल-इति अ. ।
  2. व्याधिकरः इति अ. ।