पृष्ठम्:अद्भुतसागरः.djvu/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१
राहोरद्भुतावर्त्तः ।

काश्यपः ।

 पर्यन्ते विमलत्वं स्यात् तमो मध्ये यदा भवेत् ।
 मध्याख्यदेशनाशः स्याच्छरच्छस्यं विनाशयेत् ॥

वराहसंहितायां च ।

 पर्यन्तेषु विमलता बहुलं मध्ये तच्छमोऽन्त्यदरणाख्यम् ।
 मध्याख्यदेशनाशः शारदशस्यक्षयश्चास्मिन् ॥
 एते सर्वे मोक्षा वक्तव्या भास्करे किन्तु ।
 पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥

पराशरः ।
 मोक्षागमो दिग्भ्यो राज्ञां जयपराजयो वेदितव्यौ । गृहीत्वा ततः पूर्वनिवर्त्तनमभियोक्तृवधाय विपर्ययेणाभियुक्तस्य ।
अथ ग्रहणसमयाग्रहणफलम् । तत्र गर्ग: ।

 दिग्दाहोल्कामहीकम्पास्तमोधूमरजांसि च ।
 सूचयन्त्यागमं राहोः पुनः पर्वण्युपस्थिते ॥

वराहसंहितायां तु ।

 ग्रस्ते क्रमान्निमित्तैः पुनर्ग्रहो मासषङ्गपरिवृद्ध्या ।
पवनोल्कापातरजःक्षितिकम्पतमोऽशनिनिपातैः ॥

पराशरस्तु ।

 उपरक्ते यदा चन्द्रे बलवान् वाति मारुतः ।
 मासे षष्ठे तदा विन्द्याद्राहोरामनं ध्रुवम् ॥
 उल्कायां द्वादशे मासि रजस्यष्टादशे तथा ।
 भूमिकम्पे चतुर्विंशे त्रिंशे तमसि निर्दिशेत् ॥
 षड्विंशेऽशनिपातेऽस्मात् सर्वेषां स्यात् षडन्तरेः- इति ।

 एवं सर्वेषामुक्तनिमित्तनां सम्भवे क्रमेण षडन्तरे भवतीत्युक्तस्यै संक्षेपः । अथ वा सर्वेषामुक्तनिमित्तानामेकस्मिन् ग्रहणे सम्भवे षडुत्तरे षड्विंशे ग्रासे द्वाचत्वारिंशन्मासे पुनर्ग्रहणं भवतीत्यर्थः ।