पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°१.सू°१.]४७९ एकादशं काण्दम्। अंसद्रीं शुद्धमुपं धेहि नारि तत्रैदनं सादय दैवानाम्॥२३॥ ऋतेन। तष्टा। मनसा। हिता। एषा। ब्रह्मंSओदनस्य। विSहिता। वेदिः। अग्ने। अंसद्रीम्। शुद्धाम्। उप। धेहि। नारि। तत्रं। ओदनम्। सादय। दैवानाम्॥२३॥ ऋतेन सत्पेन ब्रह्मणा तष्ठा तनूकृता सम्यङ्निर्मिता। तक्षू त्वक्षू तनूकरने। कर्मणि निष्ठा। "यस्य विभाषा" इति इद्वतिंषधः। "स्कोः संयोगाधोः°" इति फलोषः। मनसा प्रथमसृष्टेन हेरण्यगर्भेण हिता धारिता। "दधातेर्हिः" इति निष्ठायां हिरादेशः। एषा एवंगुणविशीष्टा वेदिः ब्रह्मौदनस्य सादनाय अग्ने पुरा विहिता महर्षिभिः कल्पिता। हे नारि पत्नि अंशयीम् अंशान् भागान् देवमनुष्यपितृसंबन्धिनो धारयतीति अशघ्री तां शुद्धाम् अनुपहताम् पेदिम् जप देहि उप समीपे धारय। तत्र वेध्याम् पकम् इमं देवानां स्वभूतम् ओदनं सादय प्रापय। आसादषेत्पर्थः।

                      चतुर्थी॥

अदितेर्हिस्तां स्रुचमतां द्वितीया सप्तऋषयो भूतकृतो यामकृण्वन्। सा गात्राणि विदुष्षेदुनस्य दर्विवेध्यामध्येनं चिनोतु॥ अदितेः। हस्ताम्। स्रुचम्। एताम्। द्वितीयाम्। सप्तSऋषयः। भूतSकृतेः। याम्। अकृण्वन्। सा। गात्राणि। विदुषी। ओदनस्य। दविः। वेध्याम्। आधि। एनम्। चिनोतु॥२४॥