पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३ . स्° २७.] २००
५५
षष्ठे काण्डम् ।

अग्निर्हि विमों जुषतां हविर्नः परि हेतिः पक्षिणीं नो वृणक्तु ॥ २ ॥
शिवः । कृपोर्तः । इषितः । नः। अस्तु । अनागाः। देवः। शकुनः। गृहम् । नः ।
अग्निः । हि । विषीः । जुषतम् । हविः । नः । पtि । हेतिः । पक्षिणीं । नः। वृणतृ ॥ २ ॥

हे देवाः इषितः नितिदेवतया प्रेषितः कपोतः [नः] शिवः सु- खकरः अस्तु भवतु । अनागाः अनपराधकः शकुनः पक्ष नः अस्माकं गृहं न पीडयतु । हि यस्माद् एवं तस्माद् विमो मेधावी असिः नः अस्मदीयं हविर्जुषताम् सेवताम् । तत्प्रसादात् पक्षिणी पक्षोपेता कपोता- ख्या हेतिः हननसाधनम् आयुधं नः अस्मान् परि वृणक्तु परिवर्जयतु ॥

तृतीया ।

हेतिः पक्षिणी न दभान्यस्माना पदे कृणुते अभिधानं
शिवो गोभ्यं उक्त पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत् कपोतैः ॥ ३॥
हेतिः । पक्षिणीं । न । भाति । अस्मान् । आी इतेि । पुदम् । कृणुते । अग्निऽधाने ।
शिवः । गोभ्यः । उत । पुरुषेभ्यः । नः । अस्। मा। नः । देवाः । इह। हिंसीत् । पोर्तः ॥ ३ ॥

पक्षिणी पक्षायां युक्ता हेतिः हननसाधनम् अस्मान् न दभाति न हिनस्तु । स च आी आद्यां व्याप्तायाम् अरण्यान्याम् अग्निधाने दा- वाग्निसंचारस्थाने पदं कृणुते पादप्रसारं करोतु । अस्मतो विनिर्गच्छचि न्यर्थः । यचा अश्नन्ति अस्य जना इति आष्ट्रे पचनशाला तस्याम् अ- न्निधाने अग्निनिधानस्याने इति योज्यम् । तथा गोभ्यः पुरुषेभ्यश्च नः अस्माकं संबन्धिभ्यः शिवः सुखकरः अस्तु भवतु । हे देवाः इह अस्मिन्


२१ Pदेवा.We with pJ Cr. 1 S स for सा. 2 S’ अरण्यानाम्. 3 S ’ अस्मिन् for अस्यां .