पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
अथर्वसंहिताभाष्ये

रक्षतु इति शेषः । ५ बृ कौटिल्ये इत्यस्मात् क्तिन्नन्तात् सप्तम्या ई च सप्तम्यर्थे’ इति प्रगृह्यात्वम् ॐ ॥ हे त्वष्टर्देव सर्वतातये सर्वस्मै .फलाय अस्मान् वर्धय ॐ ‘‘सर्वदेवात् तातिल् इति स्वार्थिकस्तातिल प्रत्ययः ॥

चतुर्थी ।
त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतैिः
पुत्रैर्मातृभिरदितिर्नु पर् नो दुष्टरं त्रायमाणं सहः ॥ १ ॥
त्वां । मे । दैव्यम् । वर्चः । पर्जन्यः । ब्रह्मणः । पतैिः।
पत्रः । भातृऽभिः। अदितिः। नु । पातु । नः। दुस्तरम् । त्रायमाणम् सहः ॥ १ ॥

त्वया देवः मे मदीयं दैव्यम् देवार्ह स्तुतिलक्षणं वचः शृणोतु । ल जू दे- वाद् यअअ ’ इति देवशब्दात् प्राग्दीव्यतीयो यच् तथा पर्ज न्यः वृष्टिकरो देवः । ब्रह्मणस्सतिः मन्त्रस्याधिपतिर्देवः । तावुभौ मदीयं स्तुतिवचनं शृणुताम् इत्यर्थः । तथा अदितिः स्वकीयैः पुत्रैः भ्रातृभिश्च सह नः अस्माकं त्रायमाणः क्षकं दुष्टरम् अन्यैस्तरीतुम् अशक्यम् अ नतिक्रमणीयं सहः बलं नु दिमं पातु नियमेन रक्षतु

पन्चमी
अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तुं मरुतैः ।
अपु तस्य दोषों गमेदभिहुतों यवयच्छत्रुमन्नितम् ॥ ५ ॥
अंशः । भगः। वरुणः। मित्रः । अर्यमा । अदितिः । पान्तुं । मरुतैः।
अ । तस्य । दुर्घः। रामेत्। अभिऽहुतेः। युवयत् । शत्रुम् । अन्तितम् ॥२॥

अंशादयः अदितेः पुत्राः । तस्या अंशश्च भंगश्चाजायेताम्” [तै ब्रा° १. १. ९, २] इति श्रुत्यन्तरप्रसिद्धाः । ते च अदितिी मरुतः


२ So we with all our MSS and V P P अतिंतम् ।. We with J.K.C


1 S’ भाग