पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१४ सू० २.] १७५
षष्ठे काण्म ।

हे ऋत्विजः अध्वर्युममुखाः इन्द्राय इन्द्रायै सोमं सुनोत अभिषुणु त । ४८८ तनूनप्तनयनाश्च ”” इति तशब्दस्य तबादेशः । तस्य पिवेन डित्वाभावात् “‘सार्वधातुकार्धधातुकयोः ” इति गुणः 3 ॥ तथा तं सोमम् आ धावत च । आधावनं नाम अदाभ्यग्रहार्थं गृहीतस्य वस- तीवरीजलस्य “८ वसवस्त्वा ” [ तै० सं०३३३.१] इत्यादिनत्रगृहीतैस्त्रिभिः सोमांशुभिः ‘‘मांदासु ते’’ [ तै० सं०३. ३. ३. १] इत्यादिभिर्मन्त्रैश्चालनम् । यद् आह आपस्तम्बः । ‘‘ अंशुम अदभ्यं वा प्रथमं गृह्वाति ।’ इति अक्रम्य ‘‘उपनद्धस्य राज्ञस्त्रीन् अंशून् प्रवृहति । वसवस्वा प्रवृहन्तु गायत्रे <ण छन्दसेत्येतैः प्रतिमन्नम् । तैरेनं चतुराधूनोति । पञ्चकृत्वः सप्तकृत्वो व । ‘‘मांदसु त इत्येतान् मतिविभज्य’’ इति [आप०१२. ८.२] । ॐ कम्पने इत्यस्मात् ण्यन्तात् लोटि ‘‘ छन्दस्युभयथा ” इति शप आधे- धातुकवात् ‘‘ णेरनिटि” इति णिलोपः ॐ । यद्वा । # धव तम् अभिषुतं सोमम् आ धावत दशापवित्रेण स र्वतः शोधयत । [य] इन्द्रः स्तोतुः मे मम वचः स्तुतिलक्षणं वाक्यं हवम् आह्वानं च शृणवत् शृणुयात् आदरेण जानीयात् तस्मा इन्द्रायेति संबन्धः । ॐ शृणवत् इति । शु श्रवणे । अस्मात् लेटि अडाग '.मः । ‘‘श्रुवः शृ च » इति झुप्रत्ययः शुभावश्च । हवम् इति. । ‘‘भा- वेनुपसर्गस्य’ इति अप् संप्रसारणं च ।।


पञ्चमी ।

आ यं विशन्तीन्दवो वयो न वृदामन्धसः ।
विरप्शिन् वि मृधो जहि रक्षास्विनः ॥ ॥ २ ॥

आ । यम् । विशन्ति । इन्दवः । वयंः । न । वृक्षम् । अन्धसः ।
विऽरप्शिन् । वि। मृधः। जहि । ऋस्विनः ॥ २ ॥


इन्दवः सोमाः अन्धसः । अन्ननामैतत् । ॐ अदेर्नाम धश्च [ उ° ४.२०५] इति असुनि व्युत्पादितम् । अन्नभूताः सन्तः यम् इन्द्रम् औ विशनित , प्रविशन्ति । तत्र दृष्टान्तः वय इति । नशब्दः उपमार्थे ।