पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथर्वसंहिताभाष्ये

वयः पक्षिणो यथा निलयभूतं वृदं शीघ्र स्वेच्छया प्रमुवन्ति तथा इ न्द्रार्थम् अभिषुताः सोमाः तमशनाय तच्छरीरं स्वयमेव प्रविशन्तीत्य र्थः । [ स वं] हे विरप्शिन् महन्नमेतत् । हे महन्निन्द्र सोमपानेन दृप्तः सन् रक्षस्विनीः रक्षोभिर्बाधकैरुपेता मृधः युध्यमानाः शत्रुसेना वि ज हि विबाधस्व । हन्तेर्जः' इति जादेशः । तस्य ‘असिद्धवद् अत्रा भात्' इति असिद्धत्वाद् 'अतो हेः' इति लुगभावः ॐ ॥

षष्ठी

सुनोतां सोमपाने सोममिन्द्राय वव्रिणे ।
युवा जेतेशनः स पॅरुष्टुतः ॥ ३ ॥

सुनोतं । सोमऽपाने । सोमम् । इन्द्राय । वव्रिणे ।
युवां । जेत । ईशानः । सः । पुरुऽस्तुतः ॥ ३ ॥

हे अध्वर्यवः सोमपाने सोमस्य' पात्रे सोमपानोत्सुकाय । की ‘‘आतो मनिन्कनिव्वनिपश्च” इति वनिप् » । वर्जिणे वज़हस्ताय शत्रुनि रसनक्षमाय इन्द्राय सोमं सुनोत अभिषुणुत । स खलु इन्द्रो युवा नि न्यतरुणः शतृणां यावयिता वा । अत एव जेता । जयशीलः ईशानः सर्व स्य जगत ईशिता स्वमी । ४ ईश ऐश्वर्यं इत्यस्मात् । लटः शानच् । अदादित्वात् शपो लुक् । अनुदातेत्वात् लसार्वधातुकानुदातवे धातुस्वरे ‘ आद्युदातः । पुरुष्टुतः पुरुभिर्बहुभिर्यजमानैः स्वस्वाभिलषितसि- द्धये स्तुतः प्रशंसितः । य इत्थं सर्वोत्कृष्ट इन्द्रः तत्प्रीत्यर्थं सोमम् अ- भिषणतेति संबन्धः ।

[ इति ] षष्ठे काण्डे प्रथमं सूक्तम् ॥

‘पातं नः” इति तृचेन विजयस्वययनकर्मणि आज्यं हुत्वा खङ्गादि शठं संपात्य अभिमनन्य योधकाय प्रयच्छेत् ॥

तथैव स्वस्त्ययनकामो रात्रौ शयनकाले एतं तृचं जपन् प्रादेशेन मु खं प्रमाय स्वष्यात् ॥


1 S K तन्मीशानाय for प्राशनाय. 2 S' षष्ट .