पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ अग्रिहोत्रचन्द्रिका | आहिताग्निः--वाचस्पते ब्रह्मण इदं न मम । तत आचम्याग्निहोत्रा- रम्भविधिना कृतेन श्रीपरमेश्वरः मीयताम् । ततो दक्षिणत उपविश्य द्वितीयादिहोमेऽध्वर्युवरणं कृत्वा 'उद्धराऽऽहवनीयम् ' | इत्यध्वर्युं प्रैषं करोति । ततोऽध्वर्युर्विहारा द्वहिराचा न्तस्तीर्थेन प्रविश्य गार्हपत्यप्रज्व- लनादि सर्वं कुर्यात् । अत्राऽऽश्वलायनाचार्येणैक इत्येव सूत्रितम् । अध्वर्युभिरत्वध्वर्युरित्येव । अथ सविषयविधिवाक्यानुक्रमणम् | अग्निहोत्राङ्गप्रधानकर्मविधायकानि वाक्यानि सर्वाणीमानि भगवत आश्वलायनाचार्य- मणीतश्रौतसूत्रद्वितीयाध्याययद्वितीयखण्डमारम्भ चतुर्थखण्डपर्यन्तमिति ज्ञेयानि । तदिदं विधिवाक्यजातं कस्मिन्ब्राह्मणे स्थितमिति न प्रतीमः । ननु सन्त्येष तर्हि सूत्राणि यथास्थानं किमर्थमयमुपक्रमः । यदि स्युर्ब्राह्मणे तर्ह्य- र्थवादमिश्रितत्वात्पृथक्कृतिरपेक्षिता । सूत्राणां च प्रायोऽर्थवादराहित्यान्मा नाम भूत्पृथक्कृतिः। मैवम् । सूत्रेषु सत्स्वप्येषु वाक्येषु न यथावज्ज्ञातुं सुशकं जिज्ञासुभिरित्यस्त्युपक्रमस्य प्रयोज नम् । बुद्धिवैशद्यार्थं च । आश्वलायनीय श्रौतसूत्रम् - द्वितीयाध्यायः । (२।४ ) - १ गार्हपत्यप्रज्वलनम्—अपराह्णे गार्हपत्यं प्रज्वल्य | २ दक्षिणानेरानयनम् – दक्षिणाग्निमानीय । ३ आहवनीयोद्धरणम् – आहवनीयं ज्वलन्तमुद्धरेत् । - ४ प्रणयनम् – प्रणयेत् । ५ निघानम् – निदध्यात् । ६ आहितार्वतचर्या -आहिता निर्त्रतचार्याहोमात् । ७ होमकालः – अस्तमिते होमः | प्रदोषान्तो वा । ८ आचमनम् –नित्यमाचमनम् । ९ परिसमूहनम् — ताभ्यां परिसमूहने । १० परिसमूहनकालः– पूर्वे तु पर्युक्षणात् । ११ पर्युक्षणम्पुर्युक्षेत् ।