पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथावरोहणप्रयोगः । ५७ समारोप्य निवासे वासेऽमि मन्थेत् । तत्र मन्त्र प्रत्यवंरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । मज पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोः || इति । अथषा पाणिभ्यामरणी प्रत्यवरोहेत्यनेन मन्त्रेण संस्पृश्य मन्थेदिति । यावदग्न्युत्पादनं मन्त्रावृत्तिः । इत्यवरोहणप्रयोगः |

  • प्रथमाग्निहोत्रारम्भः |

अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽनुहुत्याऽऽहवनीये संग्रहं हुत्वाऽथ सायमग्निहोत्रं जुहोति । ( आपस्तम्ब० श्रौ० सू० ५ | २२ । १० ) तदिदमध्वर्यूणामुक्तमाश्वलायनादिभिरपि कर्तव्यमेवातस्तस्प्रयोगं प्रयुञ्जमहि । आधानानन्तरं द्वादशदिनमध्ये पूर्णमाससोनारम्भ प्रसक्तो द्वादश दिनपर्यन्तमजस्त्रे- ष्वेव तत्कार्यम् । तत्रोद्धरणकालेऽग्न्युत्पत्तिक्रमेण प्रादुष्करणं कार्यम् । कालातिक्रमे सर्वप्रायश्चित्तं कार्यम् । त्रयोदशेऽहनि प्रातर्होमान्तेऽग्नित्यागः । ततः सायंकाळप्रभृति होमार्थमुद्धरणं कार्यम् । द्वादशदिनमध्ये पौर्णमाससोमारम्भप्रसक्तौ पत्रमानेष्टवन्तेऽग्नीपरि- त्यज्यानन्तरं सायं होमार्थमुद्धरणं कार्यम् । तत्राग्निहोत्रमारस्यमानोऽपर यज्ञोपवीती पत्न्या सहाऽऽचम्प तीर्थेन प्रविश्य जघनेन गार्हपत्यं कुशपाणिः- ममोपात्त दुरितक्षयद्वारा श्रीपरमेश्वरमीत्यर्थमग्निहोत्रमारस्ये | यावज्जीवम ग्रिहोत्रं होण्यामि । जीर्णो विरंस्ये । इति संकल्प्याध्वर्युं वृणुयात् । अग्निहोत्रहो मेऽध्वर्यु स्वामहं वृणे । अग्निहोत्रमारप्स्यमानो दशहोतारं होष्यामि | ततोऽध्वर्युराज्यं संस्कृत्य जुह्वां चतुर्गृहीतं गृहीत्वा चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः | केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता | प्राणो हविः । सामाध्वर्युः । वाचस्पते विधे नामन् । विधेम ते नाम | विधेस्त्वमस्माकं नाम | वाचस्पतिः सोमं पिबतु । आऽस्मासु नृम्णं वात्स्वाहा ।

  • अयं प्रयोग आपदेवसूनुनाऽनन्तदेवेन कृतस्तथैव संगृहीतोऽस्ति ।