पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिहोत्रचन्द्रिका | पक्षहोमप्रकारः । ३९ आहिताग्निः-- ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ पक्षहोमरूपमग्नि- होत्रं होण्यामि । 'पर्वोदनात्प्राग्यावन्ति दिनानि तावन्ति चतुरुन्नयनानि प्रतिपदि सायं बृहति पात्रा- न्तरे स्रुचं स्थापयित्वा तत्र गृह्णीयात् । ततः सर्वं नित्याग्निहोत्रं समाप्य अनेन पक्षहोमरूपाग्निहोत्राख्येन कृतेम कर्मणा परमेश्वरः श्रीयताम् । तदेतत्सर्वं सुस्पष्टं समग्राहि त्रिकाण्डमण्डनभास्करमिश्रण- प्रतिपद्युन्नयेत्सायमापद्यन्यत्र वा दिने । यावन्त्यौपवसध्याहात्माग्दिनानि भवन्ति हि ॥ तावन्ति परिगृह्णीया चतुरुन्नयनानि च । पात्रान्तरसहायायां नित्यायां प्राकृतस्रुचि । स्थूलं स्रुगन्तरं वाऽपि कृत्वा तत्र समुन्नयेत् । एका समित्सकृद्धोमः सकृदेव निमार्जनम् || उपस्थानं सकृत्कार्य शेषा प्रकृतिरिष्यते । एवमेवोत्तरत्राह्नि प्रातर्होमान्समस्य तु || जुहोत्यौपवसथ्याहे प्रातर्होमावधीन्सकृत् । पक्षहोमे हि तत्रैकमुदाहृत्येाच्यते मनाक् ।। चतुरुन्नयनान्यस्मिन्नष्टाविंशतिमुन्नयेत् । चतुर्धा कृत्वा जुडुयात्षट्पञ्चाशतमाहुतीः ॥ प्रक्षेपास्तत्र चत्वारः प्रतिप्रक्षेपमाहुतीः । मन्त्रेण जुहुयाद्विद्वांश्चतुर्दश चतुर्दश || आपश्चेदनुवर्तेत दीर्घकालं कदाचन । यावजीवमविच्छिन्नान्पक्षहोमान्समाचरेत् ! | आपदेवावधिस्तत्र न पक्षगणनाऽवधिः ॥ इति । कृतेऽपि पक्षहोमेऽग्नेर्धारणं कार्यमेव । अरणिषु समारोप: कार्य: । तदाह मण्डना- चार्यः- -