पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १२ दे० भाष्यम् -आहिताग्निर्यजमान आचम्य प्रयतोऽपि कर्मावादाचामेत् । बेदिं गार्हपत्यं चापरेणातिसृज्य गत्वा दक्षिणतो दक्षिणस्यां दिश्युपविशति । निरसनमकृत्वैतच्छ्रुत्वा कर्तुरतिसर्जनं श्रुत्वोमुन्नयेत्यतिसृजेदनुज्ञां कुर्यात् । पूर्ववधिमात्रमेव कुर्यात् । आहि- साग्निग्रहणं कर्तुरधिकारादाचमनं कर्माङ्गमेव | ततः श्रुचेतिवचनात्प्रागेवाऽऽसीनो भवति । अधिकारे तु प्रपदनं त्रिधीयते । असति यजमाने स्वयमात्मनोऽनुजानीयादिस्यध्वर्यू- णाम् ॥ २९ ॥ वृत्तिः– विहरणकाल एवाऽऽहिताग्निश्चाध्वर्युः पत्नी च स्नात्वाऽऽचम्यं तीर्थेन प्रकि शन्ति । तत्राध्वर्युर्विहरणं कृत्वा होमकाले प्राप्त निष्क्रम्य प्राङ्मुख उदङ्मुखो वाऽऽचम्य तीर्थेनैव प्रविश्य पर्युर्क्षणादि कुर्यात् । पत्नी तु गार्हपत्यस्य दक्षिणत आस्त आ होमपरि- समाप्तेः । आहिताग्निश्चाऽऽहवनीयविहरणकाले दक्षिणत उपविश्योद्धराऽऽहवनीयमित्यध्वर्यु सँधैँषमुक्त्वाऽऽस्ते । ततो होमकाले प्राप्ते निष्क्रम्य प्राङ्मुख उदङ्नुखो वाऽऽचम्म तीर्थेनैव प्रपद्यापरेण चेदिदेशं पूर्वेण गार्हपत्यं दक्षिणाग्निं च गत्वा वेदेर्दक्षिणत उपविशेत् । उप- विष्टः सन्नेतदतिसर्जनवाक्यं श्रुतिसृजेत् ॥ २९ ॥ अतिसृष्टो भूमिळा भुव इळा स्वरिळा वृध इळेति स्रुवपूरमुन्नत् ॥ ३० ॥ दे० भाष्यम्–यजमानेन।तिसृष्टः कर्ता ' भूरिळा ' इत्येतैश्चतुर्भिर्मन्त्रैः स्थाल्याः स्रुवः पूर्यते । पूर्ण पूर्ण उन्नयेत् । स्थाल्या उद्धृत्योन्नयेच तुरुनयेदतिसृष्ट इत्यनुच्यमाने यजमानस्योन्नयनं प्राप्नोत्यधिकारात् ॥ ३० ॥ वृत्तिः– अतिसृष्ट इति वचनं प्रवसति यजमाने स्वेनैवातिसृष्ट उन्नयेन्नान तिसृष्ट इत्येवमर्थम् । चत्वार एते मन्त्राः समत्वात्संसर्गाणामतश्चतुष्कृत्व उन्नयेत् । स्रुवपूरमिति णमुल्प्रत्यययोगाच्च । अप्रियमप्रिय मित्युन्नयनभेददर्शनाच । स्रुवपूरमिति स्रुवं पूरयित्वे- त्यर्थः । अत्र पञ्चममन्त्रस्य।भावात्पञ्चावत्तिनां तूष्णीमेव पञ्चममुन्नीयतें पुरुषविशेषधर्मित्वा- दवदानविशेषसंबन्धस्य ॥ ३० ॥ तत अग्रियमग्रियं पूर्णतमं योऽनुज्येष्ठमृद्धिमिच्छेत्पुत्राणाम् ॥ ३१ ॥ दे० भाष्यम् – अग्र्यमग्रे भन्नमग्र्यमग्र्यमग्र्यं पूर्णतममुन्नयेत् । उत्तरं तत ऊनतममित्यनुज्येष्ठं यजमाव आत्मनोऽनुज्येष्ठं ज्येष्ठानुपूर्व्येण ऋद्धिमिच्छेत्पुत्राणां ज्येष्ठस्योत्तमा वृद्धिः । अनन्तरस्थोना, तत ऊनतरा तत ऊनतमेत्येवमेतदेव विपरीतमध्त्र - र्यूणां योऽनुकमिष्टमृद्धिमिच्छेत्पुत्राणामिति ॥ ३१ ॥ वृत्तिः --- यो यजमानः पूर्वजात नुसारेणाऽऽत्मनः पुत्राणामृद्धितारतम्यमिच्छेत्तस्य पूर्वः पूर्णतमो भवेत् | अनेकपुत्रस्यायं काम्यः ऋल्पो न चतुष्पुत्रस्यैव ॥ ३१ ॥