पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ अग्निहोत्रचन्द्रिका | त्यनेन विकारे प्राप्तेऽष्यम्याधेयस्य दक्षिणादानमधिकं समुच्चितं स्यात् । वाक्यसंयो- गात् । तत्राप्युभयर्ददात्याग्न्याधयिकीः पुनराधेयिकी श्चेतिवाक्येन संयोगात् । शिष्टत्वाच्चेतरासां यथास्थानम् । (जै० त० १० । ३ । ३१ । ) ●, - सुबोधिनी - साधकान्तरमाह - शित्वादिति । यथास्थानं यथाक्रममितरासां प्राकृ तदक्षिणानां शिष्टत्वात् । अनुशासनात् । अनुशासनं चैवं श्रूयते - 'आग्न्याधेयिकीर्दत्त्वा पुनराधेयकीर्ददाति ' इति । सिद्धान्तमाह


विकारस्त्वमकरणे हि काम्यानि । ( जै० त० १० । ३ । ३२ ।) - सुबोधिनी - विकार इति । हि यस्मात्कारणात्काम्यानि पुनराधेयानि । प्रयोगब हुत्वाभिप्रायं बहुवचनमतोऽप्रकरणेऽप्रकृतौ विहितदक्षिणयेति शेषः | विकारो बाधः प्राकृतस्य । शङ्कते च निवृत्तेरुभयत्वं हि श्रूयते । (जै० त० १० । ३ । ३३ । ) - सुबोधिनी - पूर्वपक्षिणा दर्शितवाक्यसंगतिमाह - शङ्कत इति । पूर्वोक्तवाक्या उभयत्वं श्रूयते तत्स्वार्थपरं नेति पूरणीयम् । कुतः – हि यस्माच्छकते निवृत्तेः प्राकृ तदक्षिणाविषये शङ्कते । पूर्ववाक्यसमीप एक यद्वैकृतीर्ददाति दक्षिणा उभयीरपि दक्षि- णास्तेन प्रत्ताः भवन्तीति श्रूयते । अत्र प्रत्ता भवन्तीति शब्देन प्राकृतदक्षिणालोपाद्वयङ्ग- व्यशङ्कायाः समाधानं कृतम् । अतः पूर्ववाक्यं जर्तिव्यवाग्वा जुहुयादितित्रत्पूर्वपक्षपर मिति भावः । इत्यग्निहोत्रचन्द्रिका ||