पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | 'अग्निहोत्रार्थ उदाते प्रायश्चित्तमिदं श्रुतम् । धार्यस्य चारित तादर्थ्य सर्वार्थ धार्यते ह्यसौ || सर्वकर्मणां धार्थमाणोऽग्निः प्रत्येकमङ्गमतोऽग्निहोत्रार्थताऽप्यस्तीति तदुदाने कर्तव्येष्टिः | नैवम्- २७० अन्यार्थमुद्धृतो ह्येष गतश्रीत्वेन धार्यते । धारणस्य निमित्तं तन्नोद्धारस्याश्रुतत्वतः || न हि गतश्रीत्वेन पुरुषस्याग्न्युद्धरणं श्रुतं येनोद्धरणमुद्धृतो वाऽग्निः सर्वार्थ: स्यात्, किंतु धारणमात्रम् | तेन यदा यत्किंचित्कर्मविशेषमधिकृत्याग्निमुद्धरति तदा तस्य धारण मात्रं गतश्रीत्येन *कारोति । यस्मिंश्च कर्मण्युपसंप्रतेरग्निरुतस्तदर्थमेवोद्धरणमुद्धृतश्चाग्नि- स्तदर्थ एव । निमित्तवशाद्धार्यमाणः प्रसङ्गादग्निहोत्रस्योपकरोतीति प्रायश्चित्तम् । सूत्रार्थः–धारणविषयेऽपि न प्रायश्चित्तमुद्धरणस्य परार्थत्वादिति । द्वितीयसूत्रार्थः–नन्विय मिष्टिरमावे वादृष्टविशेषं जनयेदग्नेः संस्कारः । एवं सत्यग्निहो त्रार्थमनुद्धृतेऽभ्यग्नौ पर्युक्षणपरिसमूहनादिरूपसंस्काररतथाऽयमपि स्यादेवॆत्यत आह–क्रियेति । इतरेषु पर्युक्षण|दिषु क्रियार्थत्वात्क्रियानिमित्तोऽग्निसंस्कारस्तदर्थत्वात्कर्मानुष्ठानं स्यात् । अयं भावः–पर्युक्षणादिकर्मणां नित्यवच्छूतत्वेनानित्यमनुष्ट नं युक्तम् अस्य तूपरागे निमित्ते स्नानेनाऽऽत्मसंस्कारवन्नैमित्तिकत्वेन निमित्ताभावेऽनुष्ठातुमशक्यत्वादिति । न तदुद्दा ने अग्निहोत्रस्थास्यादिमुन्मयं भिन्नं चेद्भूमिभूमि मित्येतेन मन्त्रेणापोऽभ्यवहरेदित्यत्र मीमांस्यते । तदिदं दर्शापूर्णमासन्यायं प्रदर्थ ममांसाम- अर्थसमवायात्प्रायश्चित्तमेकदेशेऽपि ( जै० त० ६ । ४ । १० ) । दीपिका— दर्शपूर्णमासयोः कपालमधिकृत्य श्रूयते — “ भिन्ने जुहोति ” इति । तत्र संशयः-~~-किं कृत्स्नभेदो निमित्तमुतैकदेशभेद उतोभयमिति । ८८ तत्रेकदेशभेदस्य नित्यत्वान्न निमित्तता | कादाचित्कस्तु कृत्स्नस्य भेदो गच्छेन्निमित्तताम् " ॥ भिदुराणां हि द्रव्याणां मिथः संघर्षेण नित्यः केनाप्यंशेन भेद इति न निमित्तत्वं संभवति । अतः कृत्स्नभेद एव निमित्तम् । नैवम् । न हि संघर्षणमात्राद्भिन्नबुद्धिर्भवति, संघृष्टमिति हि तदा बुद्धिर्भवति न भिन्नमिति | भेदनं चेह निमित्तं तच्चैकदेशेऽप्यनित्य- त्वानिमित्तं भवत्येव । - 66