पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ अग्निहोत्रचन्द्रिका | • रूपं कालोऽनुनिर्वापो देवता श्रपणं तथा । आदौ ये विधृताः पक्षास्त इसे सर्वदा स्मृताः ।। इति । इमे पञ्चाऽऽदौ प्रथमारम्भे ये पक्षा विधृतास्ते सर्वदा यावज्जीवं स्वस्त्रकालेऽनुष्ठेपाः । तानेवाऽऽह – रूपमिति । एतेषामुदाहरणानि देवयाज्ञिकादिभिर्भाष्यादिषु लिखतानि तान्येवोच्यन्ते ---- १ रूपम् - दाक्षायणदर्शपूर्णमासस्त्ररूपादि । -- उदितानुदितादिः । २ काल: --उ ३ अनुनिर्वापः–वैमृधादित्येष्ट्यादिः । ४ देवता — इन्द्र महेन्द्रादिः । ५ श्रपणम् -- गार्हपत्य आहवनीये वा । अत्र सर्वत्राऽऽदिपदेनातिसदृशमेवोपादेयम् । अन्यथा कलशब्देन सद्यस्कालपथ हि कैकाहिकादिनक्षत्रादीनामपि नियमः प्रपद्येत । एवं रूपमित्यनेन सुसदृशं तत्कार्यकारि ग्राह्यम् । तच्च पूर्वोक्तम् । केचिद्रूपोदाहरणं द्यावापृथिवीयस्यैककपालमाज्यमित्याहुः । तच्चिन्त्यम् । कालादिसंपत्तौ कृतप्रायश्चित्तेष्टेस्तदभावे पूर्णाहुत्यसंभवापातात् । न चेष्टा- पत्तिः । व्यवस्थाशास्त्रमसमञ्जसं स्यात् । किंच तत्रापि गव्यत्वादिकमपि परिगृहीतं सुदु. स्त्यजं स्यात् । समिद्रव्यादिष्वपि पर्गमयत्वादीनां पूर्वपरिग्रहापत्तेश्च । तथा च सर्वम शक्यारम्भणीयं च स्यात् । देवतायाः पुनर्विधानाच्च । न्यायस्य त्वगतिक गतिकवात्सर्वेभ्य इत्यत्रैत्र दध्ना तण्डुलैरक्षतैर्वेत्यादिपारस्कर गृयो हो मद्रव्येषु गोभिलेोक्तेषु च परिंगृहीतला- भेऽपि कादाचिःकत्त्रं व्याहन्येत । न च सिद्धमिष्टम् । सायंहोमेषु यद्रव्यं प्रातोंमेषु तद्भवेत् । इतियज्ञपाण्डनचिनार्थ- क्यापाताच्चेति दिक् । १ अन्ये तु रूपमित्यनेन क्रियारूपम् । अनिष्ट इत्यद्भिरभिमृशति सकन्त्रि- त्यादि । २ कालरूपम् - उदितानुदितहोमिनोरप्यपूर्वक्षणरूपम् । ३ मन्त्ररूपम् – प्रत्युष्टमित्यादि । ४ देशरूपम् – प्राक्संस्थमुदक्संस्थादि । ५ द्रव्यरूपम् - आज्यपुरोडाशादि ।