पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· अग्निहोत्रचन्द्रिका | ८ ' 'अनित्यत्वात्तु नैवं स्यात् ' ( पू० मी० २ | ४ | ४ ) . कृत्तिः— तुशब्द श्वार्थेऽन्वाचये । यदि च यावजीवनकाल : कर्मधर्म: स्यात्तर्हि ‘‘ जरामर्थं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च जरया ह वा एताभ्यां निर्मुच्यते मृत्युना च " इत्येवमग्निहोत्रस्य दर्शपूर्णमासयोश्च समभिन्याहारः श्रूयते | तैत्तिरीया अपि समामनन्ति - " एतद्वै जरामर्यमग्निहोत्रम् ” ( ना० उ० १०।८० ) इति । जरया वयोहान्या मयं समाप्यं न तु स्त्रेच्छयेति जरामर्यमवश्यानुष्ठेयम् । इ वा इति निपाताववधारणे । एषोऽग्निहोत्रस्य कर्ता जरया मृत्युना चावश्यं मुख्यत इति तदर्थः । कर्मधर्मे हि वचनभिदं विरुध्यते । कुतः — अनित्यत्वात् । काम्यप्रयोगध- में हि यावज्जीवनकाले विधीयमाने नित्यप्रयोगस्या लाभात्काम्यप्रयोगस्य चानित्यत्वाद- वश्यानुष्ठेयत्वरूपजरामर्थत्ववचनविरोधः | काम्यप्रयोगस्यानित्यस्वर्गमात्रार्थत्वेन जरामरण- निवृत्तिफलकत्ववचनविरोधश्च । अनित्यत्वादित्यस्य नित्याभिलषणीयफलरहितत्वादित्यप्यर्थः । सिद्धान्ते तु नैमित्तिकप्रये,गस्य पापक्षयार्थत्वाच्छरीर रम्भकपापाभावाज्जरामरणनिवृत्त्यर्थमु पपद्यते । एतेन वामनमतं यत्रिंशदिनादिभिरिति तदपि व्याख्यातं वेदितव्यम् । तथा चाग्निहोत्रं यावज्जीवमनुष्ठेयमिति शास्त्रीयः पन्थाः । - ननु किमिदमग्निहोत्रं नाम – ब्रूमहे – अग्निहोत्रमित्यनुष्ठीयमानस्य नित्यस्य कर्म- विशेषस्य नामधेयम् । तदुक्तं प्राच्यां मीमांसायां प्रमाणलक्षणे चतुर्थ पादे — एवं हि तत्सूत्रप्रणयनप्रसङ्गलेखनव्यापारे लेखनी व्यापारयामः- --- 66 ' अग्निहोत्रं जुहोति ' इति श्रूयते । तत्राग्निहोत्रपदं गुणविधिर्नामधेयं वेति संशयः। गुणविधित्वे बाधकाभावात्कर्मनामत्वे बाधकसत्त्वाच्च । तथा हि हूयत इति होत्रं पयोदध्यादि द्रव्यम् । “ हुयामाश्रुभसि " इत्यादिना त्रन् प्रत्ययः । अग्नये होत्रमस्मिन्निति बहुव्रीहिणैव मत्वर्थस्य लाभान्न मत्वर्थलक्षणा । ' सप्तमी विशेषणे बहुव्रीहौ इति ज्ञापकाद्व्याधि - करणपदो बहुव्रीहिः । — कण्ठेकाल: " उरसिलोमा सच्छास्त्रजन्मा हि विवेकलाभ इत्यादिवत् । ततश्चाग्न्युद्देश्यकपयोदध्यः दिहूयमा नद्रव्यकहोमोऽवगतः । तत्राग्निहोत्र दे होमो न विधेयो जुहोतिनैव तल्लाभात् । नापि पयोदध्यादिद्रव्यम् । 66 पयसा जुहोति इत्यादिभिस्तल्लाभात् । अत उपसर्जनीभूतोऽप्यग्निरेव विधेय इति प्राञ्चः । "" वस्तुतस्तु होत्रशब्दो भावसाधनः । अग्नये होत्रं होमोऽग्निहोत्रम् | यद्वा हूयते यस्मिन्क. र्मणि तद्धोत्रम् | अग्नये होत्रमग्निहोत्रम् | प्रकृतिविकारभाव एव चतुर्थीसमासविधावपि सुप्सुपा " इति समासः । “ लोकंतोऽर्थमयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो