पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १८१ नादाहवनीयश्रवणात्तस्य गार्हपत्यसंज्ञा सिद्धा | अन्यथाऽऽहवनीय एवायमेव कल्पो ब्राह्मणे दृष्टः । इतरे प्रतिषिद्धाः । यदि मन्थेद्भ्रातृव्यं यजमानस्य जनयेत् । यदि प्राञ्चमायतना- च्च्यवेत यदि प्रत्यञ्चमसुरवधज्ञं तन्वीत सहभस्मानं दक्षिणेन विहारं कृत्वागा निधायाथ प्राश्चमाहवनीयमुद्ररेत् । एतदेव प्रशस्तमितरे विकल्याः श्रुत्यन्तरेऽपि प्रशस्ताः सर्व एवं कल्पाः । ना० वृ० – इदमपि कल्पान्तरम् । आहवनीयमुद्धरेदित्येता सिद्धे प्राञ्चमितिवच नमाहवनीयात्प्रत्यश्चं गार्हपत्यं प्रणयापि विहारसिद्धिरतीदमपि कल्पान्तरमिति झापनार्थम् । एते चत्वारः पक्षा ब्राह्मणे समुद्दिष्टाः । तत्र निन्दा विध्यन्तरस्तुत्यर्था | अतः सर्वेषां क्वचिच्छास्त्रान्तरे विधानमरतीनि तान्सर्वान्कर्तव्यतया सृचिनवानाचार्यः | सहभस्मान- मित्यस्मिन्पक्षे दक्षिणेन विहारं नीचा गार्हपत्यायतने निधानम् । तत इष्टिर मिस्तपस्याञ्जनद्वान्पावकवान् | दे० भा० - तत इष्टिस्तस्मान्मन्थनाविहारणानन्तरमिष्टिर्भवति मा वक्ष्यते । अधि- कारे पुनस्तत इति वचनात्ततस्ततस्तस्मान्कल्लादिय मिष्टिर्भवति । अन्यथाऽन्त्यादेव कल्पा- दिष्टि: स्यात् । अग्निस्तपस्वाञ्जनद्वान्यावकवानि त देवता । ना० वृ० – एकाऽत्र देवता म चाग्निस्त्रिभिर्गुणैर्युक्तः । आयाहि तपसा जनेष्व पावको अर्चिषा | उपेमां सुष्टुतिं मम | आ नो याहि तपसा जनेष्वने पावक दीद्यत् । हव्या देवेषु नो दधदिति । - दे० भा० - आग्राहीति यथासमाम्नाते याज्यानुवाक्ये । एपाउनुगमनेष्टिरित्युक्त मध्वर्यूणामस्माकमप्युक्तं तत इष्टिरिति । तस्मासर्वेधनुगतेष्वपवे स्तित इष्टिरित योक्ता सा सर्वेषामनुगमन इष्टा । प्रणीतेऽनुगते प्राग्घोमादिष्टिः । दे० भा० -~-प्रणीत आहवनीये होमा प्रागनुगते हामात्पूर्वमुपशान्त इष्टिर्भवति । तस्मात्प्रणीत इत्याहवनीयस्याधिकारः क्रियते । प्रग्घोमादितिवचनाद्धोमादूर्ध्वमनुगमनेऽ- न्यत्प्रायश्चित्तं वक्ष्यति —— अग्नावनुगतेऽन्तराऽऽहुती हिरण्य उत्तरां जुहुयादिति । ततो हिरण्य एव होमशेषं समापयेन्न पुनर्विहरेत् । आ प्राग्धोमादनुगते विह्वयेष्टिं कुर्यात्सा वक्ष्यते । ना० वृ०-—अग्निहोत्रार्थं प्रणीत आहवनीयेंऽनुगतप्रायश्चित्तत्त्रेनेयमिष्टिः कर्तव्या |