पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १७९ स्थेन स्वेन कालात्ययप्रायश्चित्तेनाग्निहोत्रमुपना येत्यादि बाणीष्ट्यन्तं सायंकाले भवति । प्रातःकालेऽपि तदाद्यैत्र त्रातभृष्ट्यन्तं भवनि न त्विद्दाग्निरनुगम्यः । - दे० भा० - कालात्ययन शेष इति वचनादनुगमयित्वा चाऽऽहवनीयमित्यनुगमनं प्राप्तं तत्प्रतिषिभ्यते । इह त्वम्युदितेऽग्निर्नानुगमयितव्यः | तुशब्दो व्यावृत्त्यर्थः । इह- वचनात्काल।त्ययेऽनुगमनमेवान्यथा तत्रापि प्रतिषेधः स्यात् । आरम्य प्रतिषेचे विकल्पो भवति । - - ना० १० – प्रातःकालेऽयं विशेषः – अनुगमयित्वा चाऽऽहवनयमिन्येतन्न भवति । तेनाग्निहोत्रार्थेष्वत्रचाग्निषु सायंह|मान्तं भवति । आहवनीये चेद्धियमाणे गार्हपत्योऽनुगच्छत्स्वेभ्य एनमवक्षामेभ्यो मन्ये - युरनुगमयेत्त्वितरम् | दे० भा०—आहवनीयै ध्रियमाणेऽनुपशान्ते चेद्यदि गार्हपत्योऽनुगच्छेदुपशमे (शाम्ये )- ततस्तेभ्य एनं गार्हपत्यमवक्षामेभ्य उल्मुकेभ्यो मन्धेयुः । अनुगमयेचितरम् गार्हपत्यादितरमाहबनीयमनुगमयेदुपशमयेदिति । अन्त्रित्यभावे स्वेभ्य इत्यनुच्यमानेऽन्य- स्याग्नेरवक्षामारम्भात्पूर्वमाहवनीयमनुगमयिःवा गार्हपत्यं मन्थेदिति दर्शितं भवति । तस्मा- दुभयोरनुगतयोरुत्तरेणोपपद्यते । एवं गार्हपत्यं मन्थयेन्चाऽऽहवनीयमिति । तुशब्दोऽवधार- णार्थः । अनुगमयेदेवेतरं बक्ष्यमाणेषु सर्वेषु मन्थनकल्पेषु । ना० वृ० -- विद्यमान आहवनीये गर्हपत्यो यद्यनुगच्छेत्तदा स्वेभ्योऽवक्षामेभ्य एनं गार्हपत्यं मन्थेयुः । तत इतरमनुगमवेत् । आहवनीयमित्यर्थः । गार्हपत्यशब्दादेव गार्ह पत्यप्रत्यथे सिद्धे तत्प्रत्ययार्थमेन मिति वचनं सर्वावस्थस्य मार्हपत्यस्यानुगमने मन्थनेनैवोत्पत्तिं रेवरूपा च सतिज्ञापनार्थम् | तुशब्दादप्ययमर्थो द्योत्यते । गार्हपन्यमनुगतं मन्थनेनैवो- त्पादयेत् । प्रियमाण आहवनीयेऽयं विशेषस्त चानुगमयेदिति । अवक्षामाणि मन्थनसम- थनि काष्ठानि । क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । स गायत्र्या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजाननिति । 1 , दे० भा० - अन्यथा क्षाममन्थन उमावणी संस्पृश्य मन्थयेत् इतो जज्ञे ' इलि मन्त्रं जपित्वा मन्थयेत् | अथ मन्त्रो ( इमं मन्त्रं ) यावन्मन्थथेत्तावज्जपेत् ।