पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ी ६ गुरुचरणारविन्दाभ्यां नमः । ॐ नमो यज्ञपुरुषाय ।

  • X:X:

अथाग्रिहोत्रचन्द्रिकाख्यो निबन्धः प्रकाश्यते । सरस्वतीभूषणपदविभूषितैः किंजवडकरोपनामभिर्वामनशास्त्रिभिरयं निवन्धो बहुतरम् न्थसमवलोकनेन वेदार्थनिर्णायकमीमांसाख्यन्यायस्वरूपस्य सम्यग्विभावनेन यज्ञिकसमा चारनिरीक्षणेन चोपांनेबद्ध इांते ग्रन्थदर्शनादेव स्फुटं प्रतीयते । यद्यचान्निहोत्रसंबन्धि पदार्थजातं क्रियाजातं प्रमाणादि च तत्सर्वमत्र विस्तरेण निरूपितमिति न तदपेक्षितं भूमिकायां किंचिद्विचारणीयमवशिष्पते तथाऽपि तत्र प्रवृत्तन किंचिलुखनीयमिति लिख्यते । अन्निहोत्रस्य फलवत्वेन काम्यत्वात्कथं नित्यत्वमिति केचिदाक्षिपन्ति, कॅचिच वेदा न्तेषु ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वोपदेशान्मिथ्याभूतस्वर्गार्थ यज्ञादौ प्रवृत्तिः कथं भवेदिति । तत्र वदामः अग्निहोत्रस्य फलवत्वेऽपि न नित्यत्वक्षतिः । यतो न नित्यत्वकाम्यत्वयोर्विरोधः । न चानयोरविरोधे नित्यं नैमित्तिकं काम्यं चेति विभागानुपपत्तिः, विभागलक्षणस्य विभाजकोपाधीनां परस्परविरोधघटितत्वादिति वाच्यम् । उपाधिभूतानां नित्यत्वादीना मेवायं विभागो नोपधेयानाम् । तथा चोपधेयसंकरेऽप्युपाध्यसंकरान्नोक्तानुपपत्ति: । तत्र नित्यत्वमननुष्ठान प्रत्यवायजनकत्वं ज्ञापकत्वं वा, काम्यत्वं च फलकामनावनियोज्यकत्वम् । नियोज्यश्च यः कार्ये स्वीयत्वेन बुध्यते । कार्य चापूर्वे, तस्य स्वीयत्वावबोधश्च स्वीय फलसाधनत्वमुखेन । फले स्वीयत्वं च न तदिच्छामात्रात् , अपि तु वचनादिति न तत्फलकाममात्रस्तत्र नियोज्य:, किंतु शास्त्राद्यादृशेोऽवगतस्तादृश एवेति न चतुर्थवर्णा देरग्रेिहोत्रादिप्राप्तिः । नित्यत्वकाम्यत्वयोरविरोधादेव । धर्मशास्त्रनिबन्धकारैर्जन्माष्टम्यादि व्रतानां नित्यत्वं काम्यत्वं चोक्तं संगच्छते । ननु-अननुष्ठानस्य प्रत्यवायजनकत्वं कथमवगम्यत उपपद्यते च ? न तावन्नित्य कर्मोत्पत्तिविधिभ्यस्तदवगमः, तेषु 'तथाविधबोधजनकशब्दाभावात् । नापि कर्मसुं पुरुषप्रवर्तनामत्राभिधायित्वाद्विषयानुष्ठानस्य पुरुषार्थत्वावगतिपर्यवसायिनस्ते तावन्मात्रे Iाणि प्रवन्यपण्णचेतस्तदननष्ठानस्य प्रत्यवायहेत्तत्वमाक्षिपन्ति । क्षीणशक्तित्वात् । यद्यनुप