पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयामविस्तारौ-देवयजनस्याऽऽयामविस्तारावर्थलक्षणाविति सूत्रकारेण प्रमाणानुः क्तत्वाज्ज्ञायेते । अर्थलक्षणं तु कल्पान्तरप्रणेतृभिव्यक्तीकृतमस्ति । तदेवम् । आयामः पेोडशप्रक्रमः । विस्तारो द्वादशप्रक्रमः । नन्वन्यतो ग्रहणे दोषः स्यादिति मैवम अनुक्तमन्यतो ग्राह्यमिति न्यायान्निषेधाभावाचेति विभाव्यताम् । आगारपार्थक्यम्--तस्मिन्देवयजन आगारद्वयं कल्पनीयम् । तदेतत्सूत्रकारः सूत्र देवयजनप्रतिष्ठतिप्रदर्शितविषयप्रमाणानि । 1ान्भवः

  • अन्यदाहवनीयागारमन्यद्भार्हपत्यस्य ” ( आप० श्रौ० सू० ५४॥६॥)

सूत्रार्थः-गार्हपत्यागारात्पृथगेवाऽऽहवनीयस्याप्यागारं कर्तव्यमित्यर्थः । गार्हषयामा एव दक्षिणाग्न्यागारं भवतीत्युक्तं भवति । आगारं शरणमित्यनर्थान्तरम् । शरणनियमः--तत्र प्रत्यागारमुदीचीनाग्रवंशतानियमः । सूत्रयति च

  • तस्मिनुदीचीनवंशं शरणं करोति ? ( आप० श्रौ०सू० ५४॥१॥)

सूत्रार्थः—उदीचीनान्वंशानिधाय गार्हपत्यस्य शरणं कुर्यात् । तत्र शरणस्य स्तम्भ चनाविशेषं सौकर्यावहं प्रदर्शयामः । प्रतिशरणं स्तम्भास्त्वेकादश द्वादश वा खातव्याः । त्र प्रतिस्तम्भमन्तरालं प्रतिकृतावङ्कितरीत्या षट्चतुस्त्रिप्रक्रममिति ज्ञेयम् । गार्हपत्यस्य क्षिणस्यां दिशि शकटगमनार्हमेकं द्वारं कल्पनीयम् । आहवनीयशरणेऽप्येकं द्वारं {ाचीनं कल्पनीयं शेषमागारं गार्हपत्यागारवत्कार्य । आयतननिर्मितिः-आयतननिर्माणमानप्रकारः प्रतिकृतै योऽस्माभिः प्रादर्शि परम्परामूलकः । परम्परा वितिहासप्रमाणमूलिकेति सुन्दरराजकृच्छुल्बसूत्रव्याख्यानतोऽ [गच्छामः । एव हि तत्र व्याख्यानम्--

  • मण्डलं गार्हपत्यस्य, अर्धमण्डलं दक्षिणाग्रेः, चतुरश्रमाहवनी

यस्यैतिहासिकाः सर्वाणि चाऽऽयतनानि क्षेत्रतस्तुल्यानीत्याहु रिति च 1) सूत्रकारमत्याऽऽयतननिर्मितिप्रकारस्तु यथावन्निणय यथावकाशं दार्शिके विहारे प्रदर्श गार्हपत्यायतनस्थलनिर्देशः-गार्हपत्यशरणस्य पृष्ठवंशादधस्लनदेशमग्रे गार्ह पत्यायतनस्थानमिति सूत्रकारेण सूत्रितम् । तद्यथा