पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • तस्याग्रेण मध्यमं वैशं गापत्यायतनं भवति ? (आप० श्रौ० ५॥४॥२)

सूत्रार्थःपृष्ठवंशादधस्तनं देशमग्रेण गार्हपत्यस्य । -तस्य शरणस्य स्थानं भवति आयतनमानम्-पञ्चतिलाधिकसार्धत्रयोदशाङ्गुलपरिमितेन शुल्बेन कर्कटेन वा। कृतवर्तुलं गार्हपत्याग्रेरायतनं भवति । १ चतुत्रिंशतिलाः पृथुसंश्लिष्टाः—एकमङ्गुलम् । पृथुसंश्लिष्टः-चतसृष्वपि दिक्षु संश्लिष्टाः प्रथनगुणविशिष्टा इत्यर्थः संबद्धाः । अयं पृथुसंक्षिष्टशब्दार्थ इति शुल्बशास्त्रविदो याज्ञिकाः प्राहुः । आहवनीयान्यायतनम्-गार्हपत्यायतनस्य पर्वशङ्कमारम्याष्टासु प्रक्रमेष्वतीतेष्वा हवनीयस्य पश्चिमशङ्क: स्थानम्

  • तस्मात्प्राचीनमष्टासु मक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राज

न्यस्य द्वादशसु वैश्यस्य ” ( आप० श्रौ० सू० ५॥४॥३ ।) सूत्रार्थः--अष्टासु प्रक्रमेष्वर्ततेष्वाहवनीयस्थानम् । प्रक्रमो द्विपदत्रिपदो वा पदं पञ्चदशाङ्गुलमिति बाधायनः । द्वादशाङ्गुलामात कात्यायनः । तत्र समचतुरश्र चतुविंशत्य हुलात्मकमाहवनीयायतनम् । दक्षिणाग्न्यायतनम्-गार्हपत्यायतनस्य पूर्वेशङ्कमारभ्य पुरस्तात्षष्टयङ्गुलमिते देशे शहूं निखाय, तस्मात्समं दक्षिणतः षट्सप्तत्यङ्गुलपरीमिते देशे शाहुं निस्वाय, तथा च गार्हत्यायतनस्य पूर्वशङ्कमारभ्य दक्षिपन्तः पुरस्तात् षण्णवत्यङ्गुलपरिमिते देशे दक्षिणाझे रायतनमध्यशङ्के निखाय सार्धयवद्वयाधिकैकान्नविंशत्यङ्गुलात्मकशुल्बेन कर्कटेन वा मण्डलं कृत्वोत्तरार्ध त्यक्त्वा दक्षिणतोऽर्धचन्द्राकाररेखां कुर्यात् । तदेतद्दक्षिणाग्रेरायतनम् ।

  • दक्षिणतः पुरस्लाद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि. दक्षिणाग्रेराय

तनम्' (आप० श्रौ० सू० ५॥४॥५॥) सूत्रार्थः-गार्हपयस्य दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्याहवनीयोरन्तराल देशस्य तृतीयऽक्षो विगतौ यस्माद्देशात्स तथोक्तः । गार्हपत्यस्य नेदीयसीति परमत निरासार्थमिति ज्ञेयम् । बितृतीयदेशे-इति समीपसतमी चेयं बितृतीयदेशस्य पश्चात्स्तो कान्तरे देश इत्यर्थः । तीर्थम्-उत्करं प्रणीताश्चान्तरेण यो देशः स तीर्थसंज्ञको ज्ञेयः । तीर्थप्रदेशज्ञानार्थ प्रतिकृतौ प्रणीतोत्करप्रदर्शनमिित ज्ञेयम् ।