पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० अग्निहोत्रचन्द्रिका नस्य स्थितिः शाग्वान्तरे विहिता स्रुचा हृयमानत्ववाङ्मुखो वहौ पतंदतस्तद्विरोकं परिहर्तुं हस्तेन होतव्यमित्येषा मन्दानामुपपत्तिः । हुतस्य पुरोडाशस्य नैश्चयं विधातुं प्रस्तांति -- " यत्प्राद्येत । देवलोकमभिजयेत् | यदक्षिणा पितृलोकम् | यत्प्रत्यक् । ( ७ ) | रक्षासि यज्ञ न्युः | यदुदङ् | मनुष्यलोकमभिजयेत् । " [ ते ० ब्रा० का० १५० ६ अ० ३ ] इति । यद्यपि लोकादिजयो न स्वरूपेण दोषस्तथाऽप्यधिककलभावनायां सत्यां तावन्मात्रत्वं दोष एव । विधत्ते- - “ प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनुमति तिष्ठतः । द्यावापृथिवी ऋतवः । ऋतून्यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः | तस्मात्प्रतिष्ठितो होतव्यः (८) । " [तै० ब्रा० का० १४०६ अ० ३ ] इति । प्रागादिदिक्षु पतनपरिहारेण होमस्थान एवं प्रतिष्ठितो निश्चलो यथा भवति तथा होतव्यः | ऋतव इत्यादिष्वनुप्रतितिष्ठन्तीत्यादिकं द्रष्टव्यं तस्मादिति पूर्वस्य विधेरुपसंहारः । तदेतदुक्तं कृत्स्नहोमादिकमापस्तम्बेन स्पष्टनुदाहृतम् -- “ उपांशु प्रचरति सर्वहुतमपर्यावर्तयन्नजं प्रतिष्ठितं न इस्तेन जुहुयात् " इति । [ आप० श्रौ० सू० ६ | ३० । १ । ] 1 स्रुचाहो मेऽप्यपर्यावृत्ति संप्रदायविद एवं संपादयन्ति । शिक्ये पुरोडाशमवस्थाप्य बाम- हस्तेन शिक्याग्रं धृत्वा दक्षिणहस्तेन स्रुचमधस्ताद्धारयित्वा तया स्रुचा होमं कुर्धन्वाम- हस्तेन शिंक्यमीष द्रुद्धृत्य वहाँ स्थापयेदिति । इत्याग्रयणब्राह्मणं सभाष्यं समाप्तम् ।